________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
१९६
सुविहितमेव विधिना श्रतःपरं ममातिभारो लघुभूतः । भग
वन्तमालोक्य | अहो कष्टम् ।
अम्भःस्यन्दैस्तिमितवपुषं लज्जयाऽभ्यास हानेः कौपीनाच्छादनमपि न निर्गल्य निःसारिताम्बुम् । देवं रक्ताम्बुजदलचयैम्छाद्यमानेोत्तमाङ्ग स्नानोत्तीर्ण करिवरमिव स्वर्णगौरं निरीक्षे ॥ तदाकलयामि कियान विलम्बोऽद्वैतागमनस्य । इति पुरो
Saathaति ।
ततः प्रविशति उत्कण्ठां नाटयन् परितोऽपरिमित परिवारोऽद्वैतः
1
अद्वैतः । पुरोऽवलोक्य | अहो यमयं देवः ।
चूडावियोगादरुणेन वाससा दूरादसौ चेदनसाविवेक्ष्यते । तथाऽपि हेमप्रतिमेन तेजसा
लावण्यभूम्नाऽपि स एव भाति नः ॥
अतिरम्यम् ।
रक्ताम्बरं कनकपोतमिदं तदेव देवस्य पश्यत वपुः सदृशीकरोति । गौरारुणस्य परिपक्कमचार सस्य वैराग्यसारसहकारफलस्य लक्ष्मीम् ॥
इति त्वरमाण उपसृत्य ध्यानामीलितनयनस्य भगवतः पुरतोऽव
स्थाय मुक्तकण्ठं रोदिति ।
For Private And Personal Use Only