________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य विभ्रामयन् वर्त्म विवेचनाक्षम
नेष्येऽहमदैतविभाहानमुम्॥ इति साश्वासमनुगच्छति । नेपथ्ये । हरिं वद हरिं वद । इति सम्भूय कोलाहलः।
नित्या । पुरोऽवलोक्य । अये अद्भुतमिदम् । यदमी गोरक्षबाला भगवन्तमालोक्य सकौतुकाऽऽदरभक्तिश्रद्धानन्दचमत्कारं हरिं वद हरि वदेति उच्चैर्जल्पन्ति।।
भगवान्। पूर्वाभ्यासेन हरिनिं श्रुत्वा किञ्चिदानन्दसुप्तोस्थित इव हरिध्वन्यनुसारिणीं दिशं नयनकमले समुन्मील्यावलोकयति ।
नित्या। निरूप्य। अहो उपकृतं गोरक्षडिम्भः यदमीषा हरिध्वनिमाकर्ण्य किञ्चित्तरामानन्दनिद्रोत्थित इवायं महामन्त्राकृष्ट इव फणिदष्टस्तमेव पन्थानमनुसर्पति।
भगवान्। उपस्त्य । ब्रूत भो ब्रूत हरिम् । इति पुनः पुनः प्रजल्पति।
प्रविश्य गोरक्षकाः शिशवः परितो दण्डवन्नत्वा करतालिकाभिईरिसशीर्तनं कुर्वन्ति । भगवान् सस्पृहमाकर्ण यन् मुहूर्त प्रस्थानतो विरमति । नित्या। सानन्दम् ।
उन्माद आनन्दकृतो हि नानाचापल्यकृज्जाद्यदप्यमन्दम्। चापत्यजाद्योभयकृच्च कश्चित् कश्चिद्गग्रस्ततया समानः ॥
For Private And Personal Use Only