________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमाथे चैतन्यनित्यानन्दयोरभिनयः । नी जानीमः परिणतिरहो भाविनी कीदृगस्य ॥ अहो बलवता वातेन चालितः केशरपरागपुञ्ज इव चलत्येषो मयाऽपि सत्वरेणानुगन्तुं न शक्यते। विरतसकलेन्द्रियवृत्तिस्तत इत एव गच्छन्नस्ति न बद्देश्यपुरस्मरं वापि। तथा छि
अपन्थाः पन्था वा न भवति दृशोरस्य विषयः किमुच्चं नीचं वा किमथ सलिलं वा किमु वनम् । प्रभिन्नोऽयं वन्यो गज व चलत्येव न पुनः
पुरो वा पश्चादा कलयति न चात्मानमपि च॥ भवति हि।
आत्मारामाः किमपि दधते वृत्तिहीनेन्द्रियत्वं प्रेमारामा अपि भगवतो रूपमात्रैकमनाः ।
खानन्दस्थो भवति यदि चेदीश्वरोऽपि क्क भेदो श्रा ज्ञातम्। निनानन्दो भवति भगवान् जीव आनन्दनिघ्नः॥ तदिदानों किं करोमि। इति क्षणं स्थित्वा। नाहारोऽद्य दिनत्रयं न च पयः पानं किमन्याः क्रियाः कौपानेकपरिच्छदो निजसुखावेशैकमात्रानुगः। गच्छन्नेव दिनं निशामपि विभु! वेत्ति किं कुर्महे हे गौराङ्ग कृपानिधे कुरु कृपामार्ते मयि प्रीयताम् ॥ क्षणं स्थित्वा। एतेन किच्चिदाश्वस्तमपि भवति चेतः। तद्यथा
आनन्दवैवश्यमिदं महाप्रभोबभूव नः सम्प्रति जोवनौषधम् ।
For Private And Personal Use Only