________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य अहै। धन्योऽसि नित्यानन्ददेव धन्योऽसि । जितं भवता निष्कैतवसौहृदेन तदागच्छतानया वार्त्तया भगवती शची माश्वास्य वयमपि समुचितमाचराम । इति निष्कान्ताः सर्वे ॥
सन्यासपरिग्रहो नाम चतुर्थोऽङ्गः ॥
पच्चमाङ्कः। ततः प्रविशति श्रीकृष्णचैतन्यः पश्चानित्यानन्द स्व । श्रीचै। एतां समास्थाय परात्मनिष्ठा
मध्यासिता पूर्वतमैर्मक्षद्भिः । अहं तरिष्यामि दुरन्तपारं
तमो मुकुन्दाधिनिषेवयैव ॥ इति स्खलितं नाटयति। नित्या । खगतम्। अहो अद्भुतम्।
प्रेमामृतं किल तथाविधमेव किन्तु निर्वेदखेददइनेन ट्तत्वमेत्य।
आवय॑मानमिव गच्छति पिण्डभावं
कालेऽस्य हृहण इव व्यथनाय भावि ॥ तदेकाकिना मया किं क्रियते भवतु चिन्तयामि । इति पुननिरूप्य । अहो अङ्गतम्। .
नृत्योर्मीकः प्रकटितमहोल्लासहकारघोषः स्वेदस्तम्भप्रभृतिविलसद्भावरत्नावलीकः । अन्तर्वगः समजनि विभोः सोऽयमानन्दसिन्ध
For Private And Personal Use Only