SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थाश शचीदेवाद्यभिनयः। सर्व्व। उपसृत्य सोत्कण्ठम् । आचार्य कथय कथय कासो भगवान्। आचा। हन्त भोः किमेष पामरः कथयतु। अवै। कथय किं वृत्तम्। आचा। कहुँ । एवमेव। अखे। हन्त कथमयं करेण पिधापनीयोऽर्थः । तत् स्फुटं कथय सर्व्व टण्वन्तु । इति सवाष्यमुच्चैः। तास्ताः कीर्तननृत्यकौतुककला हा धिक समाप्तिं गतास्तास्ताः प्रेमविलासहासमधुरा वाचः स्थिता नो हृदि । सा प्रीतिः करुणा च सा शिव शिव स्मत्येकशेषाऽभवत् सन्यासेन तव प्रभो विरचितः सर्वखनाशी हि नः ॥ सर्व्व। आकर्ण्य माहं नाटयन्ति । प्रविश्य सत्वरम् गङ्गादासः। आचार्य कथय कल्याणिनो देवस्य कल्याणमित्येषा पृच्छति भगवन्माता। आचार्या वाष्पसद्धकण्ठस्तिष्ठति । अदै । मन्नाम्ना तो ब्रूहि। रामस्य विपिनवासः कृष्णस्य च माथुरं गमनम्। अस्य च सन्यास विधिस्त्रितयं मात्रयस्य सोढव्यम् ॥ गङ्गा । इंहो तयाऽप्येतदनुमितमस्ति पुरैव उक्तच्च। किं गोप्यते भवद्भिः स खलु ज्येष्ठस्य वर्त्म शिश्राय । लोकोत्तरचरिताना तुल्ये काठिन्यकारुण्ये। अहै। भवत्येवमेवासा धैर्यवती कथमन्यथा तादृशः पुत्रः । क्षयं स्थित्वा विम्टश्य । भवत्येवम्। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy