________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य मुरा। एवं मन्ये नित्यानन्ददेवः सङ्गे वर्तते । अयं का-- न्तरायात्र प्रेषित इव।
अद्वै। किं तावदस्यात्र कार्य्यम्। न तावदित्ते प्रयोजनं यदर्थमयमागमिष्यति । न मातरि च तथा ममत्वम्। यत्तामेव शान्वयितुं प्रहेष्यति। न तादृगस्मादृशां सौभाग्यम्। यदस्मल्लालयितुं प्रस्थापयिष्यति । तदलमनया विचिकित्मया। तन्न वेद्मि किमपरं फलं धृतमस्ति मादृशां दुर्दैवविषभूरुहेण । इति सचिन्तस्तिष्ठति ।। पुनर्ने पथ्ये । हा कलं पामर एवास्मि । यतः
पश्चात् पश्चात् कथमनुसृतं नैव हा हन्त दृष्ट्या तादृग्रूपं कथमिव दृशौ हन्त तापैर्न दग्धे । याहोत्युक्ते सति भगवता जीवितं किं न यातं
हा हा विश्वम्भर तव तया मायया वञ्चितोऽस्मि ॥ सर्व्व। याकर्ण्य। नेपथ्याभिमुखं निरीक्षामहे माऽतःपरं विलम्ब्यताम्। इति तद्दीक्षमाणास्तिष्ठन्ति । ননঃ মৰিত্ৰাঘাষনঃ। आचा। कच स्निग्धश्यामः कुटिलकचपाशः क स विधिः
क च श्रोणीभारः क शिव शिव कौपीनमपि तत्। क्षणं स्थित्वा पराम्टश्य ।
प्रतीतिर्दृष्टणां परमियमहो वस्तु न हि तत् समस्तस्याधारात्मनि चिति समस्तं स्फुरति हि॥
For Private And Personal Use Only