________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थाके अदैतश्रीशसाद्यभिमयः। पुनर न्यः पुनर न्यः पुनर न्यश्चेति तथा तथैव दृष्ट्वा दृष्ट्वा निष्कामति ।
गङ्गा। सवैमनस्यम्। अहो फलितमिव दुःस्वप्नेन। तत्किं करोमि । अद्वैतादयो यत्र तिष्ठन्ति तत्रैव यामि। इति कतिचित्पदान्यादधाति। ततः प्रविशन्ति दोर्मनस्येन वितर्क नाटयन्तोऽद्वैतादयः। अवै। श्रीवास किमेतत्।
मतेऽस्माकं प्रातः स्वभवनमुपेतोऽस्ति भगवान् गृहे श्रीवासादेः स्थित इति जनन्या मतमिदम्। इति भ्रान्ताः सर्व प्रकृतमनसः सम्प्रति वयं
कथं विद्मोऽकस्मादयमशनिपातोऽद्य भविता ॥ श्रीवा। ये ये प्रहितास्तदन्वेषणाय तेषां न कोऽपि प्रत्या
वर्तते।
अवै। अन्विष्य यदि पश्यति तदैव प्रत्यावर्तिष्यते । कोऽपि किमप्यनुसन्धानं न लब्धवान्। एतत् किं सम्भाव्यते ।
इह ग्रामे को वा स्थगयत तमात्मप्रकटनं स किंवा स्वात्मानं स्थगयितुमपीशः प्रभवतु । अपलोतुं शक्यो न भवति जनैश्चण्डकिरणः
कथकारं व्याम्नि स्वमपि स दिने व्यन्तरयतु॥ श्रीवा। पुरोऽवलोक्य । अयं गङ्गादासः समायाति तदयं प्रष्टव्यः । उपसृत्य । गङ्गा। भो भो म भागाः कथमा कम्मिकोऽयं विप्लवः ।
For Private And Personal Use Only