________________
Shri Mahavir Jain Aradhana Kendra
२३
www. kobatirth.org
चैतन्यचन्द्रोदयस्य
चैव क्षणं निद्रामि । इति निद्रां नाटयन खप्नायते । भो विश्वम्भरदेव कुचासि कुचासि । इति खन्नायित्वा पुनः प्रबुध्य । श्रहो किमयमालेोकितो दुःखघ्नः । इति मुहर्त्तं हृदि भगवच्चरणौ विचिन्त्य पुनर्नेपथ्याभिमुखमवलोक्य । अहो न कोऽपि दृश्यते सर्व्व एव भगवत्प्रमुखाः सङ्कीर्त्तनोपरमे यथायथं शयनाय गतवन्त इव लक्ष्यन्ते भवतु तदहमपि स्वनिलयं गच्छामि । इति कतिचित्प दानि परिक्रम्य । अहो विभातैव विभावरी । इति प्राचीमवलोकय | उल्लङ्घ्य किञ्चिदुदयाचलवप्रधारां प्राच्या दिशोऽम्बरतटीमवलम्बमानः । पादप्रसारणविधावपटुस्तथाऽपि बालो रविः कलय कालवशादुदेति ॥ इति कतिचित्पदानि गत्वा पुरोऽवलोक्य | अहो कोऽयं सत्वरः किञ्चित्पिपृक्षुरिव समुपैति । प्रविश्य । सम्भ्रान्तः कश्चित् ।
पुरुषः । अहो गङ्गादास भवद्वाट्य देवो विश्वम्भरः । गङ्गा । सोल्लासम् । अहो मे भागधेयम् । यमवलेोकयितुं गच्छन्नस्मि । स एव खयमागतोऽस्मदाव्याम् ।
Acharya Shri Kailassagarsuri Gyanmandir
पुरुषः । अये एवं पृच्छामि । भवदाट्यामागतः किमिति । गङ्गा। सवैमनस्यम्। कथमेवं पृच्छसि ।
A
पुरुषः । अन्यस्मिन्नहनि प्रातः स्वनिलये गत्वा कृत्यं करोति श्रद्य न गत इति शचीदेव्या प्रेषितोऽस्मि तदन्वेषणाय । इत्यक्चैव पुनरन्यतोऽन्वेष्टुं निष्कान्तः ।
पुनरन्यः सम्भान्तः सत्वरं प्रविश्य पुनस्तथैव पृष्ट्वा निष्कान्तः ।
For Private And Personal Use Only