________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थाश अढतश्रीवासाद्यभिनयः ।
महः पूरैर्विद्युद्दलययति दिक्षु प्रमदय
बसौ विश्वं विश्वम्भरजलधरो नृत्यति पुरः ॥ अपि च। दिशि विदिशि दृशा सरोजमाला
नयनजलेन मधूनि तत्र तन्वन् । मधुकरनिकरं भुवा च चक्र
भ्रमिनटने जयतीह गौरचन्द्रः॥ अपि च। पादाघातैरुरगनगरानन्दनिस्यन्दहेतो
बर्बाहूत्क्षेपैरिव सुरपुरीताण्डवे पण्डितस्य । आशाचक्र भ्रमयत इव भ्राम्यदुद्योतदण्डै
र्जीयाच्चक्रभ्रमणनटनं देवविश्वम्भरस्य । पुनर्निभाल्य । अहो । अनन्तरं भगवानतोऽपि नर्तित प्रविष्टः।
श्रीवासस्त्रिभिरेव सुखरतमैरामादिभिः सोदरैगायत्येष कलं वयच्च भगवान् वक्रेश्वरश्चोत्सुकः । मजोराङ्गदहारकङ्कणधरः काञ्चीकलापादिमानदैतस्तनुमानिवैष भजनानन्दो नरीनृत्यते ॥ स्थूलोष्णोषविलाससुन्दरशिराः कर्मदये ताण्डवान्दोलन्मौक्तिककुण्डलो हदि चलच्चामोकरसम्वरः। पादाये चलनूपुरः पुलकितो वाघ्याम्बुधौताऽऽनना नित्यानन्दमहाशयोऽपि महताऽऽवेशेन नृत्यत्ययम् ॥ अम्बरमवलोक्य | अहो याम-मात्रावशिष्टेयं त्रियामा। उचितमेव पूर्णते नयनयुगलम्। भगवत्या निद्रयाऽभिभूतोऽस्मि । तद
For Private And Personal Use Only