________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
ලද්දේ
स्थित्वैव निभालयामि । इति निभालय । अहो सर्व्व एव कीर्त्त यन्तो भगवन्तं विश्वम्भरं नर्त्तयन्ति नृत्यन्ति च । तदेवं मन्ये । दुर्बीरदैत्यघटया घटिते पटीयोभारे स्वयम्भगवताऽपहृतेऽपि भूमेः । तस्यावसादमधुना विधुनोति देवो भक्तैर्नटनटननिष्ठुरपादघातैः ॥
पुनर्निभल्य | हो
1
श्रानन्दः किमु मृर्त्त एष परमः प्रेमैव किं देहवान् श्रद्धा मूर्त्तिमती दयैव किमु वा भूमौ स्वरूपिण्यसैौ । माधुर्य्यं नु शरीरि किं नवविधा भक्तिर्गतका तनुं तुल्याऽऽवेशसुखोत्सवो भगवता वक्रेश्वरो नृत्यति ॥ पुनर्नेपथ्ये । सम्भूयानन्दतुमुलो जयध्वनिकलकलः । गङ्गा । निभाल्य। अहो मचत्कौतुकम् । वक्रेश्वरे नृत्यति गौर चन्द्रा गायत्यमन्दं करतालिकाभिः ।
वक्रेश्वरो गायति गौरचन्द्रे नृत्यत्यसैौ तुल्य सुखानुभूतिः ॥
पुनर्नेपथ्ये । तथैव जयध्वनिः कोलाहल उलूलनिनदश्च ।
गङ्गा । चिरं निरूप्य अहो भगवान् विश्वम्भर एव नृत्ये प्र
1
|
वृत्तः । तथा हि
गभोरैर्डङ्कारै निजजनगणान् वर्हिणयति द्रतैवाष्पाम्भोभिर्भुवनमनिशं दुर्दिनयति ।
For Private And Personal Use Only