SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चैत्यवन्दनसूत्रादौस्थानादीनां योजना || गाथा १०-११॥ स्य क्रियास्तिक्यवतः, तथा तेन प्रकारेणोच्चार्यमाणस्वरसम्पन्मात्रादिशुद्धस्फुटवर्णानुपूर्वीलक्षणेन, 'यथार्थ' अभ्रान्तं, पदज्ञानं भवति, परिशुद्धपदोच्चारे दोषाभावे सति परिशुद्धपदज्ञानस्य श्रावणसामग्रीमात्राधीनत्वादिति भावः ॥१०॥ एयंचत्ति। एतच्च परिशुद्धं चैत्यवन्दनदण्डकपदपरिज्ञानम् , अर्थः-उपदेशपदप्रसिद्धपद-वाक्य-महावाक्य-दम्पर्यार्थपरिशुद्धज्ञानम् ,आलम्बनं च-प्रथमे दण्डकेऽधिकृततीर्थकृद् ,द्वितीये सर्वे तीर्थकृतः,तृतीये प्रवचनम् , चतुर्थे सम्यग्दृष्टिः शासनाधिष्ठायक इत्यादि, तद्योगवतः-तत्प्रणिधानवतः, 'प्रायः' बाहुल्येन, 'अविपरीतं तु' अभीप्सितपरमफलसम्पादकमेव, अर्थालम्बनयोगयोनियोगतयोपयोगरूपत्वात् , तत्सहितस्य चैत्यवन्दनस्य भावचैत्यवन्दनत्वसिद्धः, भावचैत्यवन्दनस्य चामृतानुष्ठानरूपत्वेनावश्यं निर्वाणफलत्वादिति भावः । प्रायोग्रहणं सापाययोगवव्यावृत्यर्थम् । द्विविधो हि योगः-सापायो निरपायश्च, तत्र निरुपक्रममोक्षपथप्रतिकूलचित्तवृद्धि कारणं प्राकालार्जितं कर्म अपायस्तत्सहितो योगः सापायः, तद्रहितस्तु निरपाय इति । तथा च सापायार्थालम्बनयोगवतः कदाचित्फलविलम्बसम्भवेऽपि निरपायतद्वतोऽविलम्बन फलोत्पत्तौ न व्यभिचार इति प्रायोग्रहणार्थः। इतरेषां अर्थालम्बनयोगाभाववताम् , एतच्चैत्यवन्दनसूत्रपदपरिज्ञानं, स्थानादिषु यत्नवतां गुरूपदेशानुसारेण विशुद्धस्थानवर्णोद्यमपरायणानामालम्बनयोगयोश्च तीव्रस्पृहावतां, परं केवलं, श्रेयः, अर्थालम्बनयोगाभावे वाचनायां पृच्छनायां परावर्तनायां वा तत्पदपरिज्ञानस्यानुप्रेक्षाऽसंवलितत्वेन 'अनुपयोगो द्रव्यम्' इतिकृत्वा द्रव्यचैत्यवन्दनरूपत्वेऽपि स्थानोर्णयोगयत्नातिशयादालम्बनस्पृहयालुतया च तद्धत्वनुष्ठानरूपतया भावचैत्यवन्दनद्वारा पर A C4SCRRENCE For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy