________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
मङ्गलपूर्वक ग्रन्थज्ञान
श्रीभाषारहस्यं सवृत्तिकम् ।। ॥१॥
वर्णनम् ॥
दोषस्तर्हि मौनं कर्तव्यं ? । आचार्यः भणति, मौनमप्यनुपायेन कुर्वाणस्य दोषो भवतीति ) विशुद्ध्या तु सुचिरं | भाषमाणस्यापि धर्मदानादिना गुण एव ।। तदिदमुक्तम् । “वयणविभत्तीकुसलो, वओगयं बहुविहं वियाणंतो॥दिवसं पि भासमाणो, तहावि वयगुत्तयं पत्तो ॥१॥ त्ति, ॥२९१।।" (वचनविभक्तिकुशलो वाग्गतं बहुविध विजानानः । दिवसमपि भाषमाणः तथापि वाग्गुप्ततां प्राप्त इति ) ततो भाषाविशुद्ध्यर्थं रहस्यपदाङ्किततया चिकीर्षिताऽष्टोत्तरशतग्रन्थान्तर्गतप्रमारहस्य-नयरहस्य-स्याद्वादरहस्यादिसजातीयं प्रकरणमिदमारभ्यते तस्य चेयमादिगाथा॥
पणमिय पामजिणिन्द, भासरहस्सं समासओ वुच्छं ।
जं नाऊण सुविहिआ, चरणविसोहिं उवलहन्ति ॥१॥ अहं भाषारहस्यं समासतः शब्दसंक्षेपतो, वक्ष्ये इत्यन्वयः, इयं च प्रतिज्ञा, सा च तदर्थिनां शिष्याणाम. वधानफलिका, किं कृत्वा प्रणम्य प्रकर्षण नत्वा, कं पार्श्वजिनेन्द्र जयन्ति रागादिशत्रूनिति जिनाः सामान्यकेवलिनस्तेष्विन्द्र इव प्राधान्याजिनेन्द्रः, पार्श्वश्वासौ जिनेन्द्रश्च पार्श्वजिनेन्द्रस्तम् , अनेन च समुचितेष्टदेवतानमस्काररूपं मङ्गलं कृतं, तेन च शिष्टाचारः परिपालितो भवति । अथ शिष्टाचारपरिपालनं न स्वतः प्रयोजनम् , । सुख-दुःखाभावयोरन्यतरत्वाभावात् , न चापूर्वजनकतया तस्य फलहेतुत्वम् , तद्धि अपूर्व विघ्नमविनाश्य फलं जनयेद् , विनाश्य वा, नाऽऽद्यः, सति प्रतिबन्धके हेतुसहस्रादपि फलानुत्पत्तेः, नाऽन्त्यः, आवश्यकत्वाद्विनध्वंसस्यैव मङ्गलफलत्वेऽपूर्वकल्पनावैयादितिचेत् , न, शिष्टाचारपरिपालनद्वारा मङ्गलस्यापूर्वजनकत्वेऽपि विघ्नध्वंसहेतुत्वाऽविरोधा
For Private and Personal Use Only