________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
KARNE
॥ औं अई नमः ॥ निवप्रतिसादातसंस्मास्तिामतिपूर्वश्रुतकेवलिभगवद्-न्यायाचार्य-न्यायविशारद-कूर्चालसरस्वती-श्रीहरिभद्रसूरिलधुलाम्यनमभृतिविरुदविभूषित-महामहोपाध्याय-श्रीयशोविजयगणिप्रणीतं स्वोपक्षविवरणविभूषितं
॥ श्रीभाषारहस्यप्रकरणम् ॥
KAHASARKASALA
ऐन्द्रवृन्दनतं पूर्ण-ज्ञानं सत्यगिरं जिनम् ॥ नत्वा भाषारहस्यं स्वं, विवृणोमि यथामति ॥१॥
इह खलु निःश्रेयसार्थिना(ना) भाषाविशुद्धिरवश्यमादेया वाक्समिति-गुत्योस्तदधीनत्वात्तयोश्च चारित्राङ्गत्वात्तस्य च परमनिःश्रेयसहेतुत्वादिति, न च वचनविभक्यकुशलस्य मौनमात्रादेव वाग्गुप्तिसिद्धेर्गुणः, सर्वथा मौने व्यवहारोच्छेदादनिष्णातस्य गुप्त्यनधिकारित्वाच्च ॥ तदुक्तम् ॥ “वयणविभत्तिअकुसलो, वओगयं बहुविहं अयाणंतो । जइवि न भासइ किंची, न चेव वयगुत्तयं पत्तो॥१॥"त्ति, दश० अ०७ नि० गाथा ॥२९०॥ (वचनविभक्त्यकुशलो वाग्गतं बहुविधमजानानः । यद्यपि न भाषते किश्चिन्नैव वाग्गुप्ततां प्राप्तः॥१॥) प्रत्युताऽवाग्गुप्तस्य वाग्गुप्तत्वाभिमानादिना दोष एव ।। तदिदमाहोक्तगाथापातनिकायाञ्चूर्णिकारः ।। " (शिष्यः) आह जइ भासमाणस्स दोसो तो मोणं कायव्वं?, आयरिओ भणइ, मोणमवि अणुवाएण कुणमाणस्स दोसो भवइ त्ति॥" (आह यदि भाषमाणस्य
1543HECRECENCE%25ACE
For Private and Personal Use Only