SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पृच्छनी ४, प्रज्ञापनी ५, प्रत्याख्यानी ६, इच्छानुलोमा ७, अनभिगृहीता ८, अभिगृहीता ९, संशयकरणी १०, व्याकृता ११, अव्याकृता १२, चेति ।। ६९-७०-७१ ॥ तत्रादावामन्त्रणीमेवाह । ४|संबोहणजुत्ता जा, अवहाणं होइ जं च सोऊणं । आमंतणी य एसा, पण्णत्ता तत्तदंसीहिं १ ॥७२॥ या सम्बोधनैः हे-अये-भो-प्रभृतिपदैर्युक्ता सम्बद्धा, यां च श्रुत्वा अवधानं श्रोतृणां श्रवणाभिमुख्यम् , सम्बोधनमात्रेणोपरमे किमामन्त्रयसीति प्रश्नहेतुजिज्ञासाफलकं, भवति, एषा तत्त्वदर्शिभिरामन्त्रणी प्रज्ञप्ता तदेवमत्र 'सम्बोधनपदघटिता' इत्येकं लक्षणं 'श्रवणाभिमुख्यप्रयोजकभाषात्वं चापरं लक्षणं द्रष्टव्यम् , अस्याश्चासत्यामृषात्वे हेतुत्रयमुक्तम् , एषा किलाप्रवर्तकत्वात् , सत्यादिभाषात्रयलक्षणवियोगतः, तथाविधद( पुद्ग)लोत्पत्तेरिति, तत्राद्यहेतौ प्रवृत्तिपदेन सत्यादिजन्यप्रवृत्तिविशेषो ग्राह्यो, द्वितीये तु प्रकृतलक्षणमेव, तृतीये तु भाषावर्गणाविशेषजन्यत्वमेतल्लक्षणमभिप्रेतमिति द्रष्टव्यम् ।। ७२ ।। उक्ताऽऽमन्त्रणी १।। अथाऽऽज्ञापनीमाह । [भिण्णा२॥७३॥ आणावयणेण जुआ,आणवणी पुव्वभणिअभासाओ। करणाकरणाणियमा-दुहविवक्खाइ सा ___ आज्ञावचनम् , अकरणस्य बलवदनिष्टानुबन्धित्वाभिधायकं करणवचनं पञ्चम्यादिकं (आख्यातविभक्तीनां | पाणिनीये लट् लिटादिका, सिद्धहमे च वर्तमानापश्चम्यादिसंज्ञा) तेन युक्ता सहिता, आज्ञापनी यथेदं कुर्विति । नन्वस्याः कथं सत्यादितो भेद इत्याचक्षते, आह पूर्वभणितभाषातः करणाकरणानियमादुष्टविवक्षात: |सा भिन्नेति । अयं भावः, करणनियमे सत्यैवेयं स्यात् , अकरणनियमे तु मृणैव स्यादित्युभयानियमादुभयातिरेको । असत्यामृषाभेदविचारे १ आ| मंत्रणी २ आज्ञापनीभाषयोलक्षणस्वरूपादिवर्णनम् ॥ 9% A64 AM For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy