________________
Shri Mahavir Jain Aradhana Kendra
श्रीभाषारहस्यं सवृत्तिकम् ।।
॥ २७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगप्रसङ्गात् । पदान्तरे लक्षणा च नानुशासनस्वरससिद्धेत्याभाति ९ ।। उक्ताऽद्धामिश्रिताऽथाद्धाद्धामिश्रितामाह । रयणी दिवसस्स व, देसो देसेण मीसिओ जत्थ ॥ भन्नइ सच्चामोसा, अद्धद्धामीसिया एसा १० ॥६७॥ रजन्या दिवसस्य वा देश: प्रथमप्रहरादिलक्षणो, देशेन द्वितीयप्रहरादिलक्षणेन, यत्र मिश्रितो भण्यते एषा अद्वाद्वामिश्रिता सत्यामृषा, यथा प्रथमपौरुष्यामेव वर्त्तमानायां कश्चित् कश्चित् त्वरयन् वदति चल मध्यन्दिनो जात इत्यादि । उक्ताद्वाद्वामिश्रिता १० ॥ ६७ ॥
तदेवमुपदर्शिताः सत्यामृषाभेदाः । अथैतन्निरूपणसिद्धत्वमसत्यामृषानिरूपणप्रतिज्ञां चाह । एवं सच्चामोसा- भैया उवदंसिया समयसिद्धा ॥ भासं असचमोसं, अओ पर कित्तइस्सामि ||६८ || स्पष्ट || ६८ || अथ प्रतिज्ञातनिरूपणाया एवासत्यामृषाया लक्षणाभिधानपूर्व विभागमाह । [ सहा ॥ ६९ ॥ अणहिगया जातीसुवि, ण य आराहणविराहणुषउत्ता । भासा असच्चमोसा, एसा भणिया दुवालआणि आणवणी, जायणि तह पुच्छणीय पैन्नवणी । पञ्चक्खाणी भासा, भासा इच्छाणुलोमा य ॥ अभिग्गहिआभासा, भासाय अभिग्गहम्मिबोधव्वा| संसंयकरणी भासा, वायड अव्वायडा चेव ॥
या तिसृष्वपि सत्या मृषा सत्यामृषा भाषास्वनधिकृता, एतेन 'उक्तभाषात्रयविलक्षणभाषात्वम्', एतल्लक्षणमुक्तं । च पुनर्न आराधनविराधनोपयुक्ता एतेनापि परिभाषानियन्त्रितम्' अनाराधकविराधकत्वं ' लक्षणान्तरमाक्षिप्तम् । एषाऽसत्यामृषा भाषा द्वादशधा भणिता तथा हि- आमन्त्रणी १, आज्ञापनी २, याचनी ३,
For Private and Personal Use Only
सत्यामृषा+ भेदविचारे
१० अद्धाद्धामिश्रि
तायाः स
निदर्शनं
लक्षणस्व
रूपादिप्र
रूपणं, सत्यामृषोप
संहारः, असत्यामृषा
लक्षणोदेशादिनिरूपणं च ॥
॥ २७ ॥