SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीभाषारहस्यं स वृत्तिकम् ॥ ॥ ५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ कः स अनुतटिका मेदः, अनुतटिकाभेदः यदगडानां वा तडागानां वा इदानां वा वापीनां वा पुष्करिणीनां वा कानां वा गुञ्जानां वा गुज्जालिकानां वा सरसां वा सरस्सरसां वा सरःपंक्तीनां वा सरस्सरः पंक्तीनां वा अनुटिकाभेदो भवति स तदनुतटिकाभेदः ॥ अथ कः स उत्करिकाभेदः, उत्करिकाभेदः यमुषाणां वा मंड्सकानां वा तिलशृंगाणां (शिम्पानां) वा मुद्द्रशिम्पानां वा मापशिम्पानां वा एरण्डबीजानां वा स्फुटिता उत्करिकतया भेदो भवति स तदुत्करिकाभेद इति ) न च वाच्यमेवंभिद्यमानानां भाषाद्रव्याणामेव नाशापत्तिरवयवविभागाद्रव्यासमवायिकारणीभूतविजातीयावयवसंयोगनाशादिति । घटे छिद्रपर्यायवत्तत्र भेदपर्यायोत्पादेपि द्रव्यान्तरोत्पादानभ्युपगमाद्विशिष्टोत्पादस्य च विशिष्टध्वंसप्रयोजकत्वेनाविशिष्टावस्थानाऽप्रतिपन्थित्वात्, अन्यथा द्वितीयादिसमयेष्ववस्थितस्यैव घटस्य द्वितीयादिसमये विशिष्टतयोत्पादेन ध्वंसव्यवहारप्रसङ्गात् । न च छिद्रघटोपि तद्घटभिन्न एवोत्पद्यत इति वाच्यं दण्डाद्यव्यापारेण तदुत्पादस्याकस्मिकत्वात्, अथ दण्डादिकं हेतुर्घटविशेष एव न त्वत्रापीति चेत्, अपूर्वेयं कल्पना, अस्तु वा तथा, तथापि 'घटे छिद्रमुत्पन्नं न तु घटो विनष्ट ' इति व्यवहारः कथमुपपादनीय इत्यधिकं सम्मतिटीकायाम् । वस्तुतः संयोगनाशस्य न द्रव्यनाशकत्वम्, किन्त्वावश्यकत्वाद्भेदस्यैव, तस्य च न भेदत्वेन तथात्वं किन्तु भेदविशेषत्वेन ।। तथा च मन्दप्रयत्नोच्चारितभाषाद्रव्याणां गतिविशेषप्रयुक्तभेदस्य तद्ध्वंसजनकत्वेप्यादाननिसर्गप्रयत्न जनितभेदस्य न तथात्वमिति यथासूत्रं युक्तमुत्पश्यामः ॥ ८ ॥ अथैतैरेव भेदैर्भिद्यमानानां मिथोऽल्पबहुत्वमाह - For Private and Personal Use Only पुद्गलानां खंड प्रत रादिभेदे द्रव्यनाशा पत्तिशंका निरसनम् ॥ ॥ ५ ॥
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy