SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ACCCCCCC त्पन्ना, त्रिदशलोके स्वर्गे।। इत्यक्षरार्थः । कथानकं पुनरेवं पूज्याःप्रतिपादयन्ति ॥श्रीमन्महावीरवर्धमानस्वामीक्ष्वाकुकुलनन्दनः प्रसिद्धसिद्धार्थपार्थिवपुत्रः पुत्रीयितनिखिलभुवनजनो जनितजनमनश्चमत्कारगुणग्रामो ग्रामाकरनगरपुरपौरपृथु पृथिवीं विहरन्नन्यदा कदाचित्काकन्दीनामिकायां पुरि समाजगाम, तत्र चामरवरविसरविरचितसमवसरणमध्यवर्तिनि भगवति धर्मदेशनां विदधति तदा नानाविधयानवाहनसमारूढप्रौढपत्तिपरिगते | सिन्धुरस्कन्धमधिष्ठिते छत्रच्छन्ननभस्तले मागधोद्गीतगुणगणे भेरीमाङ्कारभरिताम्बरतले नरपतौ तथा द्विजवरवैश्यादिके पुरजने तथा गन्धधूपपुष्पपटलप्रभृतिपूजापदार्थव्यग्रकरकिङ्करीनिकरपरिगते विविधवसनाभरणरमणीयतरशरीरे नगरनारीनिकरे भगवतो वन्दनाथं प्रव्रजति सति एकया वृद्धदरिद्रयोषिता जलेन्धनाद्यर्थ बहिनिर्गतया कश्चिनरः पृष्टः 'क्वाऽयं लोक एकमुखस्त्वरितं याति ? तेनोक्तं 'जगदेकबान्धवस्य देहिनां जन्मजरामरणरोगशोकदुर्गत्यादिदुःखच्छिदुरस्य श्रीमन्महावीरस्य वन्दनपूजनाद्यर्थ, ततस्तच्छ्रवणात्तस्या भगवति भक्तिरभवत् अचिन्तयच्च, अहमपि भगवतः पूजार्थ यत्नं करोमि केवलमहमतिदुर्गता पुण्यरहिता विहितपुजाङ्गवर्जितेति ततोऽरण्यदृष्टानि मुधालभ्यानि सिन्दुवारकुसुमानि स्वयमेव गृहीत्वा भक्तिभरनिर्भराङ्गी 'अहो धन्या पुण्या कृतार्था कृतलक्षणाऽहं सुलब्धं मम जन्म, जीवितफलं चाहमवाप' इति भावनया पुलककण्टकितकाया प्रमोदजलप्लवप्लावितकपोला भगवन्तं प्रति प्रयान्ती समवसरणकाननयोरन्तराल एव वृद्धतया क्षीणायुष्कतया च झगिति पञ्चत्वमुपगता । ततोऽ| सावविहितपूजापि पूजाप्रणिधानोल्लसितमानसतया देवत्वमवाप्तवती । ततस्तस्याः कडेवरमवनिपीठलोठितमवलो C ESCRIOR For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy