________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीयोगविंशिका प्रकरणम् ॥ ॥५१॥
ACROCHACHCHOCHOCHOCHACK
तद्गुणपरिणतिरूपः सूक्ष्मोऽतीन्द्रियविषयत्वात् , अनालम्बनो नाम योगः, अरूप्यालम्बनस्येषदालम्बनत्वेन "अलवणा यवागूः" इत्यत्रेवात्र नपदप्रवृत्तेरविरोधात् । “सुहुमो आलंबणो नाम"त्ति क्वचित्पाठस्तत्रापि सूक्ष्मालम्बनो नामैष योगस्ततोऽनालम्बन एवेति भाव उन्नेयः, उक्तं चात्राधिकारे चतुर्दशषोडशके ग्रन्थकृतैव-"सालम्बनो निराल-म्बनश्च योगः परो द्विधा ज्ञेयः।। जिनरूपध्यानं ख-ल्वाद्यस्तत्तत्त्वग- स्त्वपरः॥१॥” सहालम्बनेन-चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तत इति सालम्बनः। आलम्बनात्-विषयभावापत्तिरूपान्निष्क्रान्तो निरालम्बनः, यो हि च्छमस्थेन ध्यायते न च स्वरूपेण दृश्यते तद्विषयो निरालम्बन इति यावत् । जिनरूपस्य-समवसरणस्थस्य ध्यानं खलु आद्यः सालम्बनो योगः। तस्यैव-जिनस्य तत्त्वं केवलजीवप्रदेशसङ्घातरूपं केवलज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्त्वगः, 'तुः' एवार्थे, 'अपरः' अनालम्बनः, अत्रारूपितत्त्वस्य स्फुटविषयत्वाभावादनालम्बनत्वमुक्तम् । अधिकृतग्रन्थगाथायां च विषयतामात्रेण तस्यालम्बनत्वमनूद्यापि तद्विषययोगस्येषदालम्बनत्वादनालम्बनत्वमेव प्रासाधीति फलतो न कश्चिद्विशेष इति स्मर्तव्यम् । अयं चानालम्बनयोगः (योगदृष्टि.)"शास्त्रसन्दर्शितोपाय-स्तदतिक्रान्तगोचरः॥ शतयुद्रेकाद्विशेषेण, सामर्थ्याख्योयमुत्तमः॥३॥” इतिश्लोकोक्तस्वरूपक्षपकश्रेणीद्वितीयापूर्वकरणभाविक्षायोपशमिकक्षान्त्यादिधर्मसन्न्यासरूपसामर्थ्ययोगतो निस्सङ्गानवरतप्रवृत्ता या परतवदर्शनेच्छा तल्लक्षणो मन्तव्यः, आह च (षोडशक.१५) “सामर्थ्ययोगतो या, तत्र दिदृक्षेत्यसङ्गशत्तयाढ्या।। साऽनालम्बनयोगः, प्रोक्तस्तददर्श
सविवरणम् ॥ आलम्बनस्वरुपपदशनद्वारा नालम्बन
योगविचारप्ररूपणम् ॥ गाथा१९॥
॥५१॥
For Private and Personal Use Only