________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा / 97 'दय' 'अय' आस्' एभ्य आम् स्याल्लिटि / अयाञ्चक्रे / अयिता / अयिषीष्ट / 2325 / विभाषेटः / (8-3-79) इणः परो य इट् तत: परेषां पीध्वंलुङ्लिटां धस्य वा मूर्धन्यः स्यात। अयिषीढ़म-अयिषीध्वम् / आयिष्ट / आयिदम्-आयिध्वम् / 2326 / उपसर्गस्यायतौ / (8-2-19) अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् / प्लायते--पलायते / निस्दुसो रुत्वस्यासिद्धत्वान्न लत्वम् / निरयते / दुरयते / निर्दुरोस्तु निलयते / दुलयते / ' प्रत्ययः' इति त्विणो रूपम् / अथ कथम् ‘उदयति विततोर्ध्वरश्मिरजौ' इति माघः / इट' : किट' कटी' इत्यत्र प्रश्लिष्टस्य एभविष्यति / यद्वा * अनुदात्तत्त्वलक्षणमात्मनेपदमनित्यम (प 97) / चक्षिङो डित्करणाज्ज्ञापकात / धादित्वात् ववये / पेये / मेये / चेये / तेये / प्रणयते / नेये / 'दय प्रत्ययादित्यतः आम् लिटील्यनुवर्तते / तदाह / एभ्य आम् स्याल्लिटि इति / विभाषेटः॥ 'इणः पीवं लुङ् लिटान्धः' इत्यनुवर्तते / अपदान्तस्येत्यतो मूर्धन्य इति च / तदाह / इणः परो य इडित्यादि // इण्णन्तादशादित्यर्थः / अयिषीवमिति // आशीर्लिडो ध्वमः सीयुट्। यलोपः / आर्धधातुकत्वान्न सलोपः। इट्। यकारादिणः परो य इट् ततः परत्वात धस्य मूर्धन्यो ढः / इट: परभक्तत्वाद्यकारान्तादङ्गात् परस्य इषीध्वमः इण्णन्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पोऽयम् / आयिवामिति // लुङो ध्वमि च्ले: सिचि आटि वृद्धौ सिच इटि धि चेति सलोपः / ध्वम इवान्तादङ्गात्परत्वानित्ये प्राप्ते विकल्पः / अङ्गादिति निवृत्तमिति केचित् / उपसर्गस्यायतौ // अयताविति श्तिपा निर्देशः / 'कृपोरोल' इत्यतः रोल इत्यनुवर्तते / तदाह / अयतिपरस्येत्यादिना / प्लायत इति // प्र इत्युपसर्गः / पलायत इति // परा इत्याकारान्त उपसर्गः / ननु निरयते दुरयत इत्यत्रापि लत्वं स्यादित्यत आह / निस् दुसो. रिति // तर्हि निलयते दुलयत इति कथमित्यत आह / निर्दुरोस्त्विति // एतदर्थमेव प्रादिषु सान्तयोरेफान्तयोश्च निर्देश इति भावः / तर्हि प्रत्यय इत्यत्रापि प्रतेरयतिपरत्वात् रस्य लत्वं स्यादित्यत आह / प्रत्यय इति त्विति // प्रतिपूर्वकादिग्धातोरच्प्रत्यये प्रत्यय इति रूपम् / अयतिपरत्वाभावान्नलत्वमित्यर्थः / अयधातुमादाय प्लत्यय इति न / अनभिधानादिति कैयटः / कथमुदयतीति // उत्पूर्वकादयधातोः शत्रन्तात्सप्तम्यन्तमिति मत्वा आक्षेपः / अनुदात्तेत्त्वेन लटइशानच्प्रसङ्गादिति भावः / प्रश्लिष्टस्येति // इधातोरिति शेषः / तस्य अनुदात्तेत्त्वाभावाच्छतृप्रत्ययो निर्बाध इति भावः / ज्ञापकादिति // चक्षिधाती इकारस्य अनुदात्ततया अनुदात्तेत्त्वादेव आत्मनेपदसिद्धौ डित्करणं अनुदात्तत्त्वप्रयुक्तात्मनेपदस्य अनित्यतां ज्ञापयति / तस्य अनित्यत्वेतु नित्यात्मनेपदार्थ ङित्करणमर्थवदिति भावः / 13 For Private And Personal Use Only