________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2321 / वा भ्राशभ्लाशभ्रमुक्रमुक्तमुत्रसित्रुटिलषः / (3-1-70) एभ्यः श्यन्वा स्यात्कर्थे सार्वधातुके परे / 2322 / क्रमः परस्मैपदेषु / (7.3-76) क्रमेर्दीर्घः स्यात्परस्मैपदे परे शिति / क्राम्यति-क्रामति / चक्राम / क्राम्यतु-क्रामतु। 2323 / स्नुक्रमोरनात्मनेपदनिमित्ते / (7-2.36) अत्रैवेट / अक्रमीत् / अथ रेवत्यन्ता अनुदात्तेतः / 'अय 474 वय 475 पय 476 मय 477 चय 478 तय 479 णय 480 गतौ' / अयते / 2324 / दयायासश्च / (3.1-37) र्थम् / वा भ्राशेति // दिवादिभ्यश्श्यनित्यतः श्यन्निति, कर्तरिशवित्यतः कर्तरीति, सार्वधातुके यगित्यतः सार्वधातुक इति, चानुवर्तते / तदाह / एभ्यः श्यन्वेत्यादि ॥क्रम इति / दीर्घः स्यादिति // शमामष्टानामित्यतः तदनुवृत्तेरिति भावः / शितीति // ष्टिवुक्लम्वाचमामित्यत स्तदनुवृत्तेरिति भावः / कामत्विति // मध्यमपुरुषैकवचने कामेत्यत्र तु क्रमः परस्मैपदेष्विति दीर्घा भवत्येव / नच दीर्घस्याङ्गाधिकारस्थत्वात् नलुमतेति निषेधः शङ्कयः / लुमता लुप्ते प्रत्यये यदङ्ग तस्य कार्य एव तस्य प्रवृत्तेः / शितिपरतः क्रमेरङ्गस्य दीर्घस्तु न लुप्तप्रत्यये परस्मैपदे परे अङ्गस्य कार्यम् किन्तु शिति परे अङ्गस्य कार्यमिति बोध्यम् / स्नुक्रमोरिति // पञ्चम्यर्थे षष्ठी आत्मनेपदनिमित्तस्याभावः अनात्मनेपदनिमित्तम् / अर्थाभावे अव्ययीभावेन सह नञ्तत्पुरुषो विकल्पत इत्युक्तेः समासः / आत्मनेपदनिमित्ताभावे सति स्नुक्रम्भ्यां परस्य वलाद्यार्धधातुकस्य इट् स्यादित्यर्थः / स्नुक्रमोरनुदात्तोपदेशानन्तर्भावादिति सिद्ध वचनमिदं नियमार्थमित्याह / अत्रैवेडिति // एवञ्च भावकर्मलकारेषु इण्ण भवति / उपस्नोष्यते जलेन / भावलकारोऽयम् / उपक्रम्यते। कर्मणि लट / यक् / प्रस्तुतमित्यत्र तु युकः कितीति निषेधान्नेट् / आर्धधातुकस्येलादेरिति इतिधेः पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् / स्नुक्रमोरनात्मनेपद इति तु न सूत्रितम् / आत्मनेपदाभन्ने परस्मैपदे परे इत्यर्थे विक्रमिष्यतीव्यसिद्धेः / स्येन व्यवधानात् / आत्मनेपदे परे नेडित्यर्थे तु प्रचिक्रसिष्यत इत्यसिद्धिः / अतो निमित्तग्रहणमित्यलम् / अक्रमीदिति // ह्यन्तेति न वृद्धिः / इति क्रम्यन्ताः परस्मैपदिनो गताः / रेवत्यन्ता इति // रेव प्लवगतावित्येतत्पर्यन्ता इत्यर्थः / अयपयेत्यारभ्य शलचलने इत्यतः प्राक् यकारान्ताः / दयायासश्चेति // दय अय् आस् एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् / कास For Private And Personal Use Only