________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 98 सिद्धान्तकौमुदीसहिता [भ्वादि 481 दानगतिरक्षणहिंसादानेषु' / आदानं ग्रहणम् / दयाञ्चक्रे / 'रय 482 गतौ'। ऊयी 483 तन्तुसन्ताने' / ऊयाञ्चक्रे / 'पूयी 484 विशरणे दुर्गन्धे च' / पूयते / पुपूये / 'क्नूयी 485 शब्दे उन्दने च' / चुक्नूये / 'क्ष्मायी 486 विधूनने' / चक्ष्माये / 'स्फायी 487 ओ प्यायी 488 वृद्धौ' / स्फायते / पस्फाये / प्यायते। ___2327 / लिड्यङोश्च / (6-1-29) लिटि यङि च प्यायः पीभाव: स्यान / पुनःप्रसङ्गविज्ञानात पीशब्दम्य द्वित्वम् / एरनेकाच:-' (सू 272) इति यण् / पिप्ये / पिप्याते / पिपियरे / 2328 / दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् / (3-1-61) एभ्यश्च्लेश्चिण्वा स्यादेकवचने तशब्दे परे / 2329 / चिणो लुक् / (6-4-104) चिण: परस्य तशब्दस्य लुक्स्यात् / अप्यायि-अप्यायिष्ट / ताय 489 सन्तानपालनयोः' / सन्तानः प्रबन्धः / तायते / तताये / अनायि-अतायिष्ट / इदन्तु भाष्ये न दृश्यते / वादित्वादिति // वयधातोर्लिटि वादित्वादेत्वाभ्यामलोपयोरभावे सति ववये इति रूपमित्यर्थः / णयधातुर्णोपदेश इति मत्वा आह / प्रणयत इति // उपसर्गादसमासेऽपीति णत्वमिति भावः। दयाञ्चक इति // ‘दयायासश्च' इत्याम् / ऊयाञ्चक्र इति // इजादित्वादाम् / उन्दने चेति // क्लेदने चेत्यर्थः / स्फायी ओ प्यायीति // ओदित्त्वं 'ओदितश्च' इति निष्ठानत्वार्थम् / ईदित्वन्तु श्वीदितो निष्ठायामिति इडिकल्पार्थम् / लिड्यङोश्च // लिट्च यङ्चेति द्वन्द्वात्सप्तमी। ‘प्याय: पी' इति सूत्रमनुवर्तते / तदाह / लिटि यङि चेति // ननु प्यायेलिटि द्वित्वं बाधित्वा परत्वात् पीभावे 'द्वित्वे एरनेकाचः' इति यणि पिप्ये इति रूपमिष्यते / तत्र द्वित्वम्बाधित्वा परत्वात् पीभावे कृते पुनर्द्वित्वं न सम्भवति / 'विप्रतिषेधे यद्बाधितं तद्बाधितमेव' इति न्यायादित्यत आह / पुनःप्रसङ्गेति // 'पुनःप्रसङ्गविज्ञानात् सिद्धम्' इति परिभाषा। विप्रतिषेधे बाधितस्यापि पुनःप्रवृत्तेरभ्युपगमात्कृतेऽपि पीभावे द्वित्वादिकं सिद्धमिति तदर्थः / दीपजन // 'च्ले: सिच्' इत्यतः ग्लेरिति, 'चिण् ते पदः' इत्यस्मात् चिण ते इति चानुवर्तते। तदाह / एभ्यश्च्लेरिति / एकवचन इति // दीपादीनामात्मनेपदित्वेन तेभ्यस्तशब्दस्य एकवचनत्वनियमादिति भावः / चिणो लुक् // चिण इति पञ्चमी / तदाह / चिणः परस्येति // चिण: परश्च अर्थात् तशब्द एव भवति / चिणभावे च्ले: सिचि रूपमाह / अप्यायिष्टेति / ताय सन्तान इति // 'लुडि दीपजन' इति च्लेश्चिणि तलोपे रूपमाह / अतायीति // चिणभावे सिचि अतायिष्टेति रूपम् / For Private And Personal Use Only