________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि अभ्यासस्यात इकारः स्यात्सनि / 2318 / दीर्घो लघोः (7-4-94) अभ्यासस्य लघोः दीर्घः स्यात्सन्वद्भावविषये / अचीकमत / णिङभावपक्षे / कमेश्च्लेश्ववक्तव्यः। णेरभावान्न दीर्घसन्वद्भावौ / अचकमत / संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते / तत्रैव दीर्घः सन्वच्च नानेकाक्ष्विति माधवः / / च्छेदः / अत्र लोप इत्यतः अभ्यासस्येत्यनुवर्तते / भृञामिदित्यस्मात् इदिति / तदाह / अभ्यासस्येति // किकम् अ त इति स्थितम् / दी? लघोरिति // अत्र लोपोऽभ्यासस्येत्यतः अभ्यासस्येत्यनुवर्तते / तदाह / अभ्यासस्य लघोर्दीर्घ इति // अभ्यासावयवस्य लघोरित्यर्थः / सन्वल्लघुनिचड्पर इति सूत्रं सन्वच्छब्दवर्जमनुवर्तते / तच्च प्राग्वदेव द्वेधा व्याख्येयम् / तथाच फलितमाह। सन्वद्भावविषय इति // सन्यत इत्यत्र तपरत्वं स्पष्टार्थमिति दीर्घोऽकित इति सूत्रे भाष्ये स्पष्टम् / तथाच कि कम् अ तेत्यत्र अभ्यासेकारस्य दीर्घ अभ्यासचुत्वे अडागमे परिनिष्ठितं रूपमाह / अचीकमतेति // अत्र लघोर्णिपरत्वं येननाव्यवधानन्यायाद्बोध्यम् / णिङभावपक्षेत्विति // आयादय आर्धधातुकेवेति णिङो वैकल्पिकत्वादिति भावः / कमेश्च्लेश्चवक्तव्य इति // अण्यन्तत्वादप्राप्तौ वचनम् / णेरभावादिति // णिङभावपक्षे कमिधातोरनुदात्तेत्त्वात्तङि प्रथमपुरुषकवचने च्लेश्चडि द्वित्वे हलादिशेष अभ्यासचुत्वे अडागमे अचकमतेति रूपं वक्ष्यते / तत्र णेरभावात् दीर्घो लघोरित्यभ्यासलघोर्दी? न भवति / तत्र लघुनि चपरेऽनग्लोप इत्यनुवर्त्य चपरे णावेव तद्विधानोक्तेः / अत एव सन्वत्त्वाभावात्सन्यत इत्यभ्यासाकारस्य इत्त्वञ्च न भवतीत्यर्थः / दी? लघोरिति दीर्घविधौ सन्वत्त्वं न निमित्तम् / किन्तु लघुनि चङ्पर इत्यस्य तत्रानुवृत्या सन्वद्भावविषये तत्प्रवृत्तिः। अतः दीर्घसन्वद्भावाविति पृथगुक्तिः / अथ पञ्चभिः श्लोकैः सन्वद्भावसूत्रं दीर्घोलघोरिति सूत्रञ्च विशदयति / संज्ञाया इत्यादिना // अस्मिन् शास्त्रे कार्यकालं संज्ञापरिभाषमित्येकः पक्षः। कार्यकालमित्यस्य कार्यप्रदेशकमित्यर्थः / अस्मिन्पक्षे तत्तत्कार्यविधिप्रदेशेषु संज्ञाशास्त्रस्य परिभाषाशास्त्रस्य च उपस्थितिः। यथोद्देशं संज्ञापरिभाषमिति पक्षान्तरम् / उद्देशाः संज्ञापरिभाषाशास्त्रानानप्रदेशाः / तान् अनतिक्रम्य यथोद्देशं / संज्ञाशास्त्रं परिभाषाशास्त्रञ्च स्वप्रदेशे स्थितमेव तत्तद्विध्यपेक्षितं स्वस्वमर्थं समर्थयतीति यावत् / अस्मिन्पक्षे कार्यप्रदेशेषु संज्ञापरिभाषाभ्यान्तदर्थस्यैवोपस्थितिः / न तु संज्ञापरिभाषाशास्त्रयोरिति स्थितिः। सन्वल्लघुनीति सूत्रे, दी| लघोरिति सूत्रे च, अङ्गस्येति, अभ्यासस्येति, चानुवृत्तम् / तत्र कार्यकालपक्षे पूर्वोऽभ्यास इति सूत्रं सन्निहितम् / ततश्च अङ्गस्य ये द्वे उच्चारणे तयोः पूर्वः अभ्याससंज्ञः स सन्वद्भवतीति फलितम् / तत्र कृदन्तोच्चारणशब्दयोगादङ्गस्येति कर्मणि षष्ठी। नत्ववयवषष्ठी। कारकषष्ठया बलवत्त्वात् / अङ्गश्च प्रत्यये For Private And Personal Use Only