________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा 2316 / सन्वल्लघुनि चङ्परेऽनग्लोपे / (7-4-93) ‘चङ्परे' इति बहुव्रीहिः / अन्यपदार्थो णिः / स च 'अङ्गस्य' इति च द्वयमप्यावर्तते / अङ्गसंज्ञानिमित्तं यश्चङ्परं णिरिति यावत् तत्परं यल्लघु तत्परो योऽङ्गस्याभ्यासस्तस्य सनीव कार्य स्याण्णावग्लोपेऽसति / अथवा 'अङ्गस्य' इति नावर्तते / चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि प्राग्वत् / 2317 / सन्यतः। (7-4-79) तथाच कम् इत्यस्य द्वित्वे हलादिशेषे ककम् अ त इति स्थितम् / सन्वल्लघुनीति // अनग्लोप इति च्छेदः / बहुव्रीहिरिति // चङ् परो यस्मादिति विग्रह इति भावः / कर्मधारयमाश्रित्य चङि परे इति नार्थः / परग्रहणवैयर्थ्यात् / ननु बहुव्रीह्याश्रयणेऽपि अत्र लोपोऽ भ्यासस्येत्यतः अभ्यासस्येत्यनुवृत्तौ चपरके लघुनि परे अभ्यासः सन्वदित्यर्थो लभ्यते / तथा सति अण्यन्तेभ्यः श्रिद्रुषुभ्यश्चङि द्वित्वे अशिश्रियत् / अदुद्रवत् / असुस्रवदित्यत्रापि सन्वत्त्वं स्यात् / ततश्च दीर्घो लघोरिति सन्वद्भावविषये अभ्यासस्य वक्ष्यमाणो दीर्घः स्यादित्यत आह / अन्यपदार्थो णिरिति // तथाच चपरे णौ इति लभ्यते / अशिश्रियदित्यादौ च णेरभावात् न सन्वत्त्वमिति भावः। सचांगस्येति चेति // बहुव्रीहिगम्यो णि: अङ्गस्येत्यनुवृत्तं चेत्यर्थः। तत्र णाविल्यावृत्ती एकं लघुनीत्यत्रान्वेति। तथाच चपरे णौ यल्लघु तस्मिन्परत इति लभ्यते / द्वितीयन्तु अनग्लोपे इत्यत्रान्वेति / तथाच, णौ परतः यः अग्लोपः तस्याभावे सतीति लभ्यते / अङ्गस्येत्यावृत्ती एकश्चपरे इत्यत्रान्वेति / निमित्तनिमित्तिभावे षष्ठी। तथाच अङ्गसंज्ञानिमित्तभूते चपरके वर्णे परे इति लभ्यते / चपरकश्च वर्णः अर्थात् णेरिकार एव / न तु श्रिद्रुस्रुवामन्त्यवर्णः। तस्य अप्रत्ययत्वेन अङ्गसंज्ञाप्रापकत्वाभावात् / एतदर्थमेव अङ्गस्येत्यस्य निमित्तषष्ठयन्ततामाश्रित्य चपर इत्यनेनान्वयोऽभ्युपगतः / चपर इत्येतावतैव तु णाविति लभ्यते / श्रिद्रुस्रुष्वव्यभिचारात् / द्वितीयं त्वङ्गस्येत्येतत् अभ्यासस्येत्यनुवृत्तेन अन्वेति / सन्वदिति सप्तम्यन्ताद्वतिः / तदाह / अंगसंशानिमित्तमित्यादिना / अथवेति // अस्मिव्याख्याने चङ्घरे इत्येतत् अङ्गस्येत्यत्रान्वेति / न तु लघुनि / अङ्गस्य च प्रत्ययनिमित्तत्वादेव णेरन्यपदार्थस्य लाभः। लघुनीति तु अभ्यासस्येत्यत्रैवान्वेति / तदाह / चड्परे णौयदंगमित्यादिना। प्राग्वदिति // सनीवकार्य स्याण्णावग्लोपे असतीत्यर्थः / अत्र प्रथमपक्ष एव भाष्यसम्मतः। अजजागरदित्यत्र चपरे णौ यल्लघु तदभ्यासव्यवहितमिति न सन्वत्त्वमिति भाष्योक्तेः / एवञ्च / प्रथमपक्षे उदेय॑न्ताच्चडि द्वित्वे उदिदि अ त इत्यत्र अभ्यासोत्तरखण्डे चपरे णौ लघोरभावेनाभ्यासस्य तथाविधलघुपरकत्वविरहात् सन्वत्त्वाभावान्नाभ्यासदीर्घः / द्वितीयपक्षे तु चड्परे णौ यदङ्गं उद् इत्येतत् तदीयोऽभ्यास. श्चङमादाय लुप्तं णिमादाय वा लघुपर इति सन्वत्त्वसत्त्वादभ्यासदीर्घ इति भेदः / एवञ्च प्रकृते ककम् अ त इत्यत्र व्याख्याद्वयेऽपि सन्वत्त्वं स्थितम् / सन्यत इति // सनि अतः इति For Private And Personal Use Only