________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि षयः / तथाचेयङादेरपवाद एवायम् / इयङ् / अततक्षत् / यण् / आटिटत् / गुणः / कारणा / वृद्धिः / कारकः / दीर्घः / कार्यते / 2314 / णौ चङ्युपधाया हुवः। (7-4-1) चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् / 2315 / चङि / (6-1-11) चङि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेस्तु द्वितीयस्य / परत्वादियङादीनां णिलोपबाधकत्वाभ्युपगमे हि णेरनिटीत्यत्र अनिटीति व्यर्थम् / कारयितेत्यादाविडाद्यार्धधातुके गुणेनैव णिलोपस्य बाधसिद्धेः / ततश्च अनिटीति वचनसामर्थ्यादनिडादावार्धधातुके सर्वस्मिन्परे णिलोप इति विज्ञायते। एवञ्च अततक्षदित्यादावियङादिप्रवृत्तियोग्येऽप्यार्धधातुके सर्वत्र णिलोप इत्यस्य निरवकाशत्वादपवादत्वादेव णिलोपेन इयडादिबाधसिद्धेर्वार्तिकमिदं व्यर्थमिति भावः / अपवाद एवायमिति // णिलोप इत्यर्थः / अतो लोपस्तु चिकीर्षक इत्यत्र वृद्धिं, चिकीर्ष्यादित्यत्र अकृत्सार्वधातुकयोरिति दीर्घञ्च, बाधित्वा पूर्वविप्रतिषेधाद्भवति। नह्यतो लोपो वृद्धिदीर्घयोरपवादः / गोपायितेत्यादौ वृद्धिदीर्घयोरप्राप्तयोरप्यतोलोपस्यारम्भादित्यलम् / इयङिति // उदाहरणसूचनमिदम् / अततक्षदिति // तक्षधातोर्ण्यन्ताल्लुङस्तिपि इकारलोपे चडि द्वित्वे संयोगपूर्वकत्वादेरनेकाच इति यणभावे इयडि प्राप्त पूर्वविप्रतिषेधात् णिलोपे हलादिशेषे अडागमे अततक्षदिति रूपम् / यणित्युदाहरणसूचनम् / आटिट दिति // अटधातोर्ण्यन्तात् आटि इत्यस्मात् लुङि तिपि इकारलोपे चङि टि इत्यस्य द्वित्वे एरनेकाच इति यणं बाधित्वा पूर्वविप्रतिषेघाण्णिलोपे आटि वृद्धौ रूपम् / गुण इत्युदाहरणसूचनम् / कारणेति // स्त्रियामित्यधिकारे कृञ्धातोर्ण्यन्तात् कारि इत्यस्मात् ण्यासश्रन्थोयुजिति युचि अनादेशे सार्वधातुकार्धधातुकयोरिति गुणं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे स्त्रीत्वाद्यापि कारणेति रूपम् / वृद्धिरित्युदाहरणसूचनम् / कारक इति // कृञ्धातोर्ण्यन्तात्कारि इत्यस्माण्ण्वुलि अकादेशे वृद्धिं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे रूपम् / दीर्घ इत्युदाहरणसूचनम् / कार्यत इति // कृञ्धातोर्ण्यन्तात्कारि इत्यस्मात् कर्मणि लटि यकि अकृत्सार्वधातुकयोरिति दीर्घ बाधित्वा पूर्वविप्रतिषेधाण्णिलोपः / तथाच प्रकृते काम् इ अ त इत्यत्र एरनेकाच इति यणं बाधित्वा णिलोपे काम् अ त इति स्थितम् / णौचङीति // अङ्गाधिकारादाह / यदंगमिति // उपधायाः किम् / अचकांक्षत् / चङि किम् / कारयति / णौ किम् / चङ्युपधाया स्व इत्युच्यमाने अदीदपदित्यत दाधातोः ण्यन्तात् लुङि चङि दा इ अ त् इति स्थिते आकारस्य ह्रस्वे. सति पुक् न स्यात् / णावित्युक्तौ तु आकारस्य णौ परत उपधात्वाभावान ह्रस्वः / तथाच प्रकृते कम् अ त इति स्थितम् / चङीति // एकाचो द्वे प्रथमस्येति अजादेर्द्वितीयस्येति चा. धिकृतम् / लिटिधातोरनभ्यासस्येति सूत्रं लिटि इति वर्जमनुवर्तते / तदाह / चङि पर इ. त्यादिना // द्विवचनेऽचीति निषेधस्तु न शङ्कयः। द्वित्वनिमित्तचङः उपधया व्यवहितत्वात् / For Private And Personal Use Only