________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 सिद्धान्तकौमुदीसहिता [भ्वादि 2309 / म्वोश्च / (8:2-65) मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे / णत्वम् / चक्षमिवहे-चक्षण्वहे। चक्षमिमहे-चक्षण्महे / क्षमिष्यते--क्षस्यते / क्षमेत / आशिषि, क्षमिषीष्ट-क्षंसीष्ट / अक्षमिष्ट--अक्षंस्त / 'कमु 443 कान्तौ' / कान्तिरिच्छा। 2310 / कमेर्णिङ् / (3-1-30) स्वार्थे / डित्वात्तङ् / कामयते। 2311 / अयामन्ताल्वाय्येल्विष्णुषु / (6-4-55) 'आम्' 'अन्त' 'आलु' 'आय्य' इत्नु' 'इष्णु' एषु णेरयादेशः स्यात् / वक्ष्यमाणलोपापवादः। कामयाञ्चके / 'आयादय आर्धधातुके वा' (2305) / चकमे / कामयिता--कमिता। कामयिष्यते--कमिष्यते / रिडभावपक्षे विशेषमाह / म्वोश्चेति // मोनोधातोरित्यनुवर्तते। तदाह / मान्तस्येति / णत्त्वमिति // षात्परत्वात् अट्कुप्वाङिति नकारस्य णत्वमित्यर्थः / कमु कान्ताविति // उदितोवेति वायां इड्विकल्पार्थमुदित्वम् / कान्तिशब्दस्य प्रभापरत्वभ्रमं वारयति / का. न्तिरिच्छेति // स्वर्गकाम इत्यादौ कमरिच्छायां प्रयोगबाहुल्यदर्शनादिति भावः / कामोऽभिलाषस्तर्षश्चेत्यमरः / कमर्णिङिति / शेषपूरणेन सूत्रं व्याचष्टे / स्वार्थे इति // अर्थविशेषानिर्देशादिति भावः / णडावितौ / आयादय आर्धधातुके वेत्यत्र णिचो ग्रहणव्यावृत्तये ङित्करणम् / ङित्वात्तङिति // नत्वनुदात्तत्त्वात्तङ् / शब्दपरविप्रतिषेधादिति भावः / कामयत इति // णिङि अत उपधाया इति वृद्धौ कामि इति णिङन्तम् / किङिति चेति निषेधस्तु न / अनिग्लक्षणत्वात्। णिडन्तस्य धातुत्वात् लडादयः। तत्र लटि शपि गुणे अयादेशे कामयत इति रूपम् / कामयेते इत्यादि सुगमम् / लिटि कास्यनेकाच इत्यामि आम इति लिटो लोपे, कामि आम् इति स्थिते, सार्वधातुकेति गुणम्बाधित्वा णेरनिटि इति वक्ष्यमाणे णिलोपे प्राप्ते / अयामन्तेति // अय् इति छेदः / णेरनिटीत्यतो रित्यनुवर्तते / तदाह / णेरयादेशः स्यादिति // तथा च कामयामित्यामन्तं स्थितम् / ततः कृञ्चानुप्रयुज्यत इत्यनुप्रयोगाल्लिडिति मत्वाऽऽह / कामयाञ्चक इति // णिङ आयादिष्वन्तर्भावाल्लिडादावार्धधातुके तद्विकल्पमुक्तं स्मारयति / आयादय इति। चकम इति // सेटकोऽयम् / चकमिषे / चकमिध्वे / चकमिवहे / चकमिमहे / कामयितेति // लुटि णिपक्षे तासि इटि वृद्धौ गुणे अयादेशे रूपम् / कमिता / कामयिध्यते। कामयताम् / अकामयत / कामयेत / कामयिषीष्ट / अथ णिङन्तात् कामि इत्यस्माल्लुङः For Private And Personal Use Only