________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 सिद्धान्तकौमुदीसहिता [भ्वादि 2303 / गुपूधूपविच्छिपणिपनिभ्य आयः। (3-1-28) एभ्य आयप्रत्यय: स्यात्स्वार्थे / 'पुगन्त-' (2189) इति गुणः / 2304 / सनाद्यन्ता धातवः / (3.1-32) सनादयः कमेणिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः / धातुत्वालडादयः / गोपायति / 2305 / आयादय आर्धधातुके वा / (3.1-31) आर्धधातुकविवक्षायामायादयो वा स्युः / / 2306 / कास्प्रत्ययादाममन्त्रे लिटि / (3-1-35) कास्धातोः प्रत्ययान्तेभ्यश्चाम्स्याल्लिटि न तु मन्त्रे / कास्यनेकाज्ग्रहणं कर्तव्यम् / एभ्य इति // गुपू धूप विच्छि पणि पनि इत्येभ्य इत्यर्थः। अर्थनिर्देशाभावादाह / स्वार्थ इति // आयप्रत्ययः अकारान्तः / तत्फलन्तु गोपायतन्नसुमनस्यमान इत्यत्र गोपायेत्यस्य धातुस्वरेणान्तोदात्तस्य शबकारेण एकादेशस्यापि, एकादश उदात्तेनोदात्त इत्युदात्तत्वे, तमित्यस्य अदुपदेशात्परसार्वधातुकत्वेन अनुदात्तस्य 'उदात्तादनुदात्तस्य स्वरितः' इति स्वरितत्वमिति बोध्यम् / धातोरेकाच इत्यतो धातोरित्यनुवृत्या धातोरिति विहितत्वादायप्रत्ययस्यार्धधातुकत्वात् तत्कार्य गुणादि भवति / तदाह / पुगन्तेति / गुण इति // नन्वायप्रत्ययान्तस्य भ्वादिषु पाठाभावेन धातुत्वाभावात् कथमस्माल्लडादय इत्यत आह / सनाद्यन्ता इति // गुप्तिजिकिझ्यः सनित्यारभ्य कमेणिङित्यन्तैः सूत्रः सनादिप्रत्ययान्विधाय सूत्रमिदं पठितम् / सन् आदिर्येषां ते सनादयः णिप्रत्ययपर्यन्ताः, ते अन्ते येषां ते सनाद्यन्ता इति विग्रहः / तदाह / सनादयः कमर्णिङन्ता इति // सन्क्यचकाम्यच क्यङ् क्यषोऽथाचारक्विणिज्यङौ तथा / यगायईयङ् णिचेति द्वादशामी सनादयः। इति सङ्ग्रहः / संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणप्रतिषेधादिह तदन्तग्रहणम् / धातु. त्वादिति / / आयप्रत्ययान्तस्येत्यर्थः / गोपायतीति // शपि अतो गुण इति पररूपम् / आयादय इति // आयः आदिः येषां ते आयादयः / आय ईयङ् णिचेति त्रय आयादयो मताः। गुपूधूपविच्छिपणिपनिभ्य आयः, ऋतेरीयङ् , कमेणिङित्युत्तरमस्य सूत्रस्य पाठात्। विवक्षायामिति // आर्धधातुक इति विषयसप्तमीति भावः / परसप्तमीत्वेतु गोपायितेत्यत्र अतोलोपो न स्यात् / आर्धधातुकोपदेशकाले अदन्तत्वाभावादिति भावः / तथा च लिटि आयप्रत्ययस्य विकल्पः स्थितः। तत्र आयप्रत्ययपक्षे आह / कास्प्रत्ययादिति // आम् अमन्त्रे इति च्छेदः / चकास दीप्ती, जागृ निद्राक्षये, इत्यादिभ्योऽपि लिटि आमिष्यते / तदर्थमाह / कास्यनेकाजिति // ननु यद्यस्मिन् वार्तिके, सूत्रस्थं प्रत्ययग्रहणमपि सम्बद्ध्यते / तदा कामृधातोश्च For Private And Personal Use Only