________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लिङ्गानुशासनप्रकरणम् / 769 तन्त्रेणोपादानमिदम् // 45. 'इषुबाहू स्त्रियां च' / चात्पुंसि // 46. 'बाणकाण्डौ नपुंसके च' / चात्पुंसि / त्रिविष्टपेत्यादिचतुःसूत्री देवासुरेत्यस्यापवादः // 47. 'नन्तः' / अयं पुंसि / राजा / तक्षा / न च चर्मवादिष्वतिव्याप्तिः / 'मन्यच्कोऽकर्तरि' इति नपुंसकप्रकरणे वक्ष्यमाणत्वात् / 48. 'ऋतुपुरुषकपोलगुल्फमेघाभिधानानि' / क्रतुरध्वरः / पुरुषो नरः / कपोलो गण्डः / गुल्फः प्रपदः / मेघो नीरदः // 49. 'अत्रं नपुंसकम्' / पूर्वस्यापवादः / / 50. 'उकारान्तः' / अयं पुंसि स्यात् / प्रभुः / इक्षुः / 'हनुहट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम् / द्वयोः कपोलावयवे' इति मेदिनी / 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः / एवंजातीयकविशेषवचनानाक्रान्तस्तु प्रकृतसूत्रस्य विषयः / उक्तं च-'लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः' इति / एवमन्यत्रापि // 51. धेनुरज्जुकुहुसरयुतनुरेणुप्रियङ्गवः स्त्रियाम् // 52. 'समासे रज्जुः पुंसि च' / कर्कटरज्ज्वा -कर्कटरज्जुना // 53. '३मश्रुजानुवसुस्वाद्वश्रुजतुत्र. पुतालूनि नपुंसके' // 54. 'वसु चार्थवाचि' / 'अर्थवाचि' इति किम् / 'वसुर्मयूखाग्निधनाधिपेषु' // 55. 'मद्गुमधुसीधुशीधुसानुकमण्डलूनि नपुंसके च'। चात्पुंसि / अयं मद्गुः / इदं मद्गु // 56. 'रुत्वन्तः' / मेरुः / सेतुः // 57. 'दारुकसेरुजतुवस्तुमस्तूनि नपुंसके' / रुत्वन्त इति पुंस्त्वस्यापवादः / इदं दारु // 58. 'सक्तुर्नपुंसके च'। चात्पुंसि / सक्तुः-सक्तु। 59. 'प्राप्रश्मेरकारान्तः' / 'रश्मिदिवसाभिधानानि' इति वक्ष्यति ततः प्राक् एतस्मादका. रान्त इत्यधिक्रियते // 60. 'कोपधः' / कोपधोऽकारान्तः पुंसि स्यात् / स्तबकः / कल्कः // 61. 'चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके ' / पूर्वसूत्रापवादः // 62. 'कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डकपिण्डककटकशण्डकपिटकतालकफलकपुलाकानि नपुंसके च'। चात्पुंसि / अयं कण्टकः / इदं कण्टकमित्यादि // 63. 'टोपधः' / टोपधोऽकारान्तः पुंसि स्यात् / घटः / पटः // 64. 'किरीटमुकुटललाटवटविटशृङ्गाटकराटलोष्टानि नपुंसके' / किरीटमित्यादि // 65. 'कुटकूटकपटकवाटकर्पटनटनिकटकीटकटानि नपुंसके च'। चात्पुंसि / कुटः / कुटमित्यादि // 66. 'णोपधः' / णोपधोऽकारान्तः पुंसि स्यात् / गुणः / गणः / पाषाणः // 67. 'ऋणलवणपर्णतोरणरणोष्णानि नपुंसके' / पूर्वसूत्रापवादः // 68. 'कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसके च' / चात्पुंसि // 69. 'थोपधः' / रथः // 70. 'काष्ठपृष्ठसिक्थोक्थानि नपुसके' / इदं काष्ठमित्यादि / 'काष्ठा दिगा स्त्रियाम्' / इमाः काष्ठाः // 71. 'तीर्थप्रोथयूथगाथानि नपुंसके च' / चात्पुंसि / अयं तीर्थः / इदं तीर्थम् // 72. 'नोपधः' / अदन्तः पुंसि / इनः / फेनः // 73. 'जघनाजिनतुहिनकाननवनवृजिनविपिनवेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिह्नाने नपुंसके' / पूर्वस्यापवादः // 74. 'मानयानाभिधाननलिनपुलिनोद्यानशयनासनस्थानचन्दनालानसम्मानभवनवसनसम्भावनविभावनविमानानि नपुंसके च'। चात्पुंसि / अयं मानः / इदं मानम् / 75. 'पोपधः' / अदन्तः पुंसि / यूपः / दीपः / सर्पः // 76. 'पापरूपोड्डपतल्पशिल्पपुष्पशष्पसमीपान्तरीपाणि नपुंसके'। इदं पापमित्यादि // 77. 'शूर्पकुतपकुणपद्वीपविटपानि नपुंसके च' / अयं शूर्पः / इदं शूर्पमित्यादि // 78. 'भोपधः' / स्तम्भः / कुम्भः // 79. 'तलमं नपुंसकम् ' / पूर्वस्यापवादः // 80. 'जृम्भं नपुंसके च। For Private And Personal Use Only