________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / आचितम् / आस्थापितम् // 3881 / प्रवृद्धादीनां च (6-2-147) / एषां क्तान्तमुत्तरपदमन्तोदात्तम् / प्रवृद्धः / प्रयुक्तः / असंज्ञार्थोऽयमारम्भः / आकृतिगणोऽयम् // 3882 / कारकाद्दत्तश्रुतयोरेवाशिषि (6-2-148) / संज्ञायामन्त उदात्तः / देवदत्तः / विष्णुश्रुतः / 'कारकात्' किम् / संभूतो रामायणः / 'दत्तश्रुतयोः' किम् / देवपालितः / अस्मानियमादत्र 'संज्ञायामन-' (सू 3880) इति न / 'तृतीयाकर्मणि' (सू 3782) इति तु भवति / 'एव' क्रिम् / 'कारकावधारणं' यथा स्वादत्तश्रुतावधारणं मा भूत् / अकारकादपि दत्तश्रुतयोरन्त उदात्तो भवति / संश्रुतः / 'आशिषि' किम् / देवैः खाता देवखाता / आशिष्येवेत्येवमत्रेष्टो नियमः / तेनानाहतो नदति देवदत्त इत्यत्र न / शङ्खविशेषस्य संज्ञेयम् / 'तृतीया कर्मणि' (सू 3782) इति पूर्वपदप्रकृतिस्वरत्वमेव भवति // 3883 / इत्थंभूतेन कृतमिति च (6-2.149) / इत्थंभूतेन कृतमित्येतस्मिन्नर्थे यः समासस्तत्र तान्तमुत्तरपदमन्तोदात्तं स्यात् / सुप्तप्रलपितम् / प्रमत्तगीतम् / कृतमिति क्रियासामान्ये करोति भूतप्रादुर्भाव एव / तेन प्रलपिताद्यपि कृतं भवति / 'तृतीया कर्मणि' (सू 3782) इत्यस्यापवादः / 3884 / अनो भावकर्मवचनः (6-2-150) / कारकात्परमनप्रत्ययान्तं भाववचनं कर्मवचनं चान्तोदात्तम् / पयःपानं सुखम् / राजभोजनाः शालयः / 'अनः' किम् / हस्तादायः / 'भा-' इति किम / दन्तधावनम् / करणे ल्युट् / ‘कारकात् ' किम् / निदर्शनम् / 3885 / मन्क्तिन्ब्याख्यानशयनासनस्थानयाजकादिक्रीताः (6-2-151) / कारकात्पराण्येतान्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे / कृत्स्वरापवादः / रथवर्त्म / पाणिनिकृतिः। छन्दोव्याख्यानम् / राजशयनम् / राजासनम् / अश्वस्थानम् / ब्राह्मणयाजकः / गोक्रीतः। 'कारकात्' किम्। 'प्रभूतौ सङ्गतिम्' / अत्र 'तादौ चानिति-' (सू 3784) इति स्वरः // 3886 / सप्तम्याः पुण्यम् (6-2-152) / अन्तोदात्तम् / अध्ययनपुण्यम् / 'तत्पुरुषे तुल्यार्थ-' (सू 3736) इति प्राप्तम् / 'सप्तम्याः' किम् / वेदेन पुण्यं वेदपुण्यम् // 3887 / ऊनार्थकलहं तृतीयायाः। (6-2-153) / माषोनम् / माषविकलम् / वाकलहः / तृतीयापूर्वपदप्रकृतिस्वरापवादोऽयम् / अत्र केचिदर्थेति स्वरूपग्रहणमिच्छन्ति / धान्यार्थः / ऊनशब्देन त्वर्थनिर्देशार्थेन तदर्थानां प्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् // 3888 / मिश्रं चानुपसर्गमसन्धौ (6-2-154) / पणबन्धेनैकार्थ्य संधिः / तिलमिश्राः / सपिर्मिश्राः / ‘मिश्रम्' किम् / गुडधानाः / अनुपसर्गम्' किम् / तिलसंमिश्राः / 'मिश्रग्रहणे सोपसर्गग्रहणस्य' इदमेव ज्ञापकम् / 'असंधौ' किम् / ब्राह्मणमिश्रो राजा / ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः // 3889 / नओ गुणप्रतिषेधे संपाद्यहंहितालमर्यास्तद्धिताः (6-2-155) / संपाद्याद्यर्थतद्धितान्तान्नओ गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः। कर्णवेष्टकाभ्यां सम्पादि कार्णवेष्टकिकं, न कार्णवेष्टकिकमकार्णवेष्टकिकम् / छेदमर्हति छैदिकः / न छैदिकोऽच्छैदिकः / न वत्सेभ्यो हितोऽवत्सीयः / न सन्तापाय प्रभवति असन्तापिकः / 'नमः' किम् / गर्दभरथमर्हति गार्दभरथिकः / विगार्दभरथिकः / 'गुणप्रतिषेधे किम् / गार्दभरथिकादन्योऽगार्दभरथिकः / गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादितत्वायुच्यते तत्प्रतिषेधो यत्रोच्यते तत्रायं विधिः। कर्णवेष्टकाभ्यां न संपादि मुखमिति / 'संपादि-' इति किम् / पाणिनीयमधीते पाणिनीयः / न पाणिनीयः अपाणिनीयः। 'तद्धिताः' किम् / वोढुमर्हति For Private And Personal Use Only H