________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा 73 2294 / अचस्तास्वत्थल्यनिटो नित्यम् / (7-2.61) उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट तत: परस्य थल इण्णस्यात् / 2295 / उपदेशेऽत्वतः / (7-2-62) उपदेशेऽकारवतस्तासौ नित्यानिट: परस्य थल इण्णस्यात् / 2296 / ऋतो भारद्वाजस्य / (7.2-63) तासौ नित्यानिट ऋदन्तस्यैव थलो नेट भारद्वाजस्य मतेन / तेनान्यस्य स्यादेव / अयमत्र संग्रहःवक्ष्यन् तदुपयोगित्वेन सूत्रद्वयमुपन्यस्यति / अचस्तास्वदिति // अधातोस्थलभावाद्धातोरिति लभ्यते / अच इति तद्विशेषणम् / तदन्तविधिः / उपदेशेऽत्वत इत्युत्तरसूत्रादुपदेश इत्यपकृष्यत इति ऋतोभारद्वाजस्येति सूत्रभाष्ये स्थितम् / उपदेशे अजन्तादित्यन्वयः / अनिट इति बहुव्रीहेः पञ्चमी / नित्यमिड्विहीनादित्यन्वयः / तासि च क्लप इत्यतस्तासीत्यनुवर्तते। तासौ नित्यमनिट इत्यन्वयः। थलीति षष्टयर्थे सप्तमी / गमेरिट परस्मैपदेवियतः इडिति, नवृझ्यश्चतुर्य इत्यतो नेति चानुवर्तते। उपदेशे योऽजन्त इत्यादि / इण्णस्यादिति // तास्वदिति शेषः / सप्तम्यन्ताद्वतिः। यथा तासि नेट तथा थल्यपि नेट् इत्यर्थः / चिचेथ, जुहोथेत्याधुदाहरणम् / अत्र कादिनियमप्राप्त इण्णभवति / अजन्तात्किम् / बिभेदिथ / उपदेश इति किम। हृञ् जहर्थ / इह गुण रपरत्वे अजन्तत्वाभावादिण्णिषेधो नस्यादित्युपदेशग्रहणम् / नित्यग्रहणकिम् / स्व गती, सस्वरिथ। स्वरतिसूतीति तासौ विकल्पितेटकत्वान्न निषेधः / तासौ किम् / लुलुविथ / थलः किम्। पपिव / पपिम / इह तासीत्यनुवृत्यैव सिद्धेस्तास्वदिति नातीवोपयुज्यते इति केचित् / वस्तुतस्तु यस्तासौ विद्यते तस्मादेव परस्य थल इण्णिषेधार्थन्तास्वदित्यावश्यकम् / तेन लिट्यन्यतरस्यामित्यतो घस्लभावे जघसिथेत्यत्र न निषेधः। घसस्तासावभावादिति अद भक्षण इति धातो मूल एव वक्ष्यते। यस्तासावस्ति अनिट्चेति भाष्यम्। उपदेशेऽत्वतः इति // अत्वत इति छेदः / अत् इखाकारः सः अस्य अस्तीति अत्वान् / तसौ मत्वर्थ इति भत्त्वान्न जश्त्वम् / अच इति वर्जम् पूर्वसूत्रं, तत्र यदनुवृत्तन्तदप्यनुवर्तते / तदाह / उपदेशे अकारवत इति / शक्ल शशक्थ / पच् पपक्थेत्युदाहरणम् / अथ क्रादिनियमप्राप्त इण्णभवति / उपदेशे किम् / कृष विलेखने। चकर्षिय / अत्वत इति किम् / विभेदिथ / तपरःकिम् / रराधिथ / तासौ किम् / जगर्हिथ / जिघृक्षतीत्यादौ सनिग्रहगुहोश्चति सनि नित्यमनिट् / नतु तासौ / नित्येति किम् / अञ्ज आनजिथ। ऊदित्वात्तासौ वेडिति भाष्यम् / चक्रमिथेत्यप्युदाहरणम्। स्नुक्रमोरिति नियमेनात्मनेपदे तासावनिटकत्वेऽपि परस्मैपदे सेट्कत्वात् / ऋतो भारद्वाजस्येति // तासौ नित्यमनिट इति थलीति नेति इडिति चानुवर्तते। भारद्वाजस्य मते ऋदन्ताद्धातोः परस्य थलो नेडिति फलितम् / हृञ् धृञादौ अचस्तास्वदित्येव सिद्धम् / अतो नियमार्थमिदमित्याह / ऋदन्तादेव थलो नेडिति। अनृदन्तात्परस्य तु थल इट् स्यादेवेत्येवकारार्थः। तदाह / अन्यस्य स्यादे 10 For Private And Personal Use Only