________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि अजन्तोऽकारवान्वा यस्तास्यनिट थलि वेडयम् / ऋदन्त ईदृनित्यानिट क्राद्यन्यो लिटि सेड् भवेत् / / न च स्तुवादीनामपि थलि विकल्पः शङ्कयः / 'अचस्तास्वत्-' (2294) इति -- उपदेशेऽत्वतः' (2295) इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो निवर्तकः ‘अनन्तरस्य-' इति न्यायात् / विवयिथ-विवेथ वेति // ऋदन्तभिन्नात्परस्य थल इट् स्यादेवेत्यर्थः / तथा च ऋदन्तभिन्नाद्धातोः परस्य थलो नेण्णिवृत्तिरिति भारद्वाजमते फलतीति न वैयर्थ्यमिति भावः / तथाच अनृदन्ताद्धातोः परस्य थलो भारद्वाजमते इट् / मतान्तरे तु अचस्तास्वदिति उपदेशेऽत्वत इति च तत्र नेडिति विकल्पः फलतीति भावः / तद्यथा / पपिथ / पपाथ / पेचिथ / पपक्थ / अयमति // कृसमृवस्तु दुस्रुश्रुवो लिटीति, अचस्तास्वत्थल्यनिटो नित्यमिति, उपदेशेऽत्वत इति, ऋतो भारद्वाजस्येति च, सूत्रचतुष्टयस्य विषयाणां सङ्ग्रहो वक्ष्यत इत्यर्थः / अजन्त इति // यः धातुः ऋदन्तभिन्नाजन्तः ह्रस्वाकारवान् वा तासौ नित्यानिट सोऽ थलि विकल्पितेट्क इति पूर्वार्धस्यार्थः / अत्र ईदृगित्यस्य तासौ नित्यानिडित्यर्थः / यः ऋदन्तस्तासो नित्यानिट् सः थलि नित्यानिडित्यर्थः / अचस्तास्वदिति पाणिनिमते ऋतो भारद्वाजस्येति भारद्वाजमतेऽपि तस्य अनिट्कत्वादिति भावः / क्राद्यन्य इति // काद्यष्टभ्योऽन्यो धातुः लिटि नित्यं सेडित्यर्थः / काद्यष्टभ्य एव परस्य लिटि नेडिति कृसभृव इति सूत्रेण नियमितत्वादिति भावः / नन्वत्र काद्यन्य इत्युक्तया कादीनां अष्टानां लिटि नित्यानिटकत्वमवगतम् / तदनुपपन्नम् / स्तुद्रुस्र. श्रुवां ऋदन्तभिन्नत्वेन तेभ्यस्थलि अचस्तास्वदिति निषेधस्य भारद्वाजमते अप्रवृत्या इड्विकल्पस्य दुरित्वात् / नचैवं सति कृसृभृव इति सूत्रे स्तुद्रुघुश्रुग्रहणमनर्थकमिति वाच्यम्। तुष्टुव तुष्टमेत्यादी वमादिषु कादिनियमप्राप्तस्य इटो निवृत्या चरितार्थत्वादित्याशय निराकरोति / न च स्तुद्रुश्रुवामपि थलि विकल्पः शङ्कय इति कुत इत्यत आह / अचस्तास्वदिति / ऋदन्तादेव परस्य थल इण्णिषेधः / अनृदन्तात्परस्य तु थल इण्णिषेधो नेति भारद्वाजं मतम् / अयश्च इण्णिषेधस्य निषेधः अचस्तास्वदिति उपदेशेऽत्वत इति च सूत्रद्वयप्राप्तस्यैव इण्णिषेधस्य पक्षे निवर्तकः / न तु क्रादिसूत्रप्राप्तस्य इट्प्रतिषेधस्यापीत्यर्थः / कुत इत्यत आह / अनन्तरस्येति // अचस्तास्वदिति उपदेशेऽत्वत इति ऋतो भारद्वाजस्येति च सूत्रक्रमः / कृसृभृवृ इति सूत्रन्तु ततः प्राग्बहुव्यवहितमिति भावः / किञ्च नेड्वशिकृतीत्यादिप्रतिषेधकाण्डोत्तरं आर्धधातुकस्येवलादेरिति विधिकाण्डारम्भसामर्थ्यादपि स्तुद्रुश्रुवामिण्णिषेधो भारद्वाजनियमम्बाधत इति नेड्वशिकृतीत्यत्र वस्वेकाजाद्धसामित्यत्र च भाष्ये स्पष्टम् / ततश्च प्रकृते अजेस्थलि वीभावे तस्य अजन्तत्वात्तासौ नित्यानिटत्वाच्च इविकल्प इति सिद्धम् / तदाह / विवयिथ विवेथेति // सिबादेशस्य थलः पित्वादसंयोगादिति कित्वाभावाद्गुणः / इट्पक्षे अवादेशः / For Private And Personal Use Only