________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 724 सिद्धान्तकौमुद्याम् येऽन्ये धातवस्तेभ्योऽपि छन्दसि युच् स्यात् / 'सुवेदनामकृणोद्ब्रह्मणे गाम् // 3423 / छन्दसि लुङ्ललिटः (3-4-6) / धात्वर्थानां सम्बन्धे सर्वकालेष्वेते वा स्युः / पक्षे यथास्वं प्रत्ययाः / लुङि / 'देवो देवेभिरागमत्' / लोडथै लुङ् / 'इदं तेभ्योऽकरं नमः' / लङ् / 'अग्निमद्य होतारमवृणीतायं यजमानः' / लिट् / 'अद्याममार' / अद्य म्रियेत इत्यर्थः // 3424 / लिङर्थे लेट् (3-4-7) / विध्यादौ हेतुहेतुमद्भावादौ च धातोर्लेट् स्याच्छन्दसि // 3425 / सिब्बहुलं लेटि (3-1-34) // 3426 / इतश्च लोपः परस्मैपदेषु (3.4 97) / लेटस्तिङामितो लोपो वा स्यात्परस्मैपदेषु // 3427 / लेटोऽडाटौ (3-4-94) / लेट: ‘अट्' 'आट्' एतावागमौ स्तः / तौ च पितौ / 'सिब्बहुलं णिद्वक्तव्यः' (वा 1794) / वृद्धिः / 'प्र ण आयूँषि तारिषत् ' / 'सुपेशसस्करति जोषिषद्धि' / 'आ साविषदर्शसानाय शरुम्' / सिप इलोपस्य चाभावे / 'पताति विद्युत्' / 'प्रियः सूर्ये प्रियो अग्ना भवाति' // 3428 / स उत्तमस्य (3-4-98) / लेडुत्तमसकारस्य वा लोप: स्यात् / करवाव / करवावः / टेरेत्वम् // 3429 / आत ऐ (3-4-95) / लेट आकारस्य ऐ स्यात् / 'सुतेभिः सुप्रयसा मादयैते' / आतामित्याकारस्य ऐकारः / विधिसामर्थ्यादाट ऐत्वं न / अन्यथा हि ऐटमेव विदध्यात् / 'यो यजाति यजात इत् // 3430 / वैतोऽन्यत्र (3.4.96) / लेट एकारस्य ऐ स्वाद्वा / 'आत ऐ' (सू 3429) इत्यस्य विषयं विना / ‘पशूनामीशै'। 'ग्रहा गृह्यान्तै'। 'अन्यत्र' किम् / 'सुप्रयसा मादयते' // 3431 / उपसंवादाशङ्कयोश्च (3 4-8) / पणबन्ध आशङ्कायां च लेट् स्यात् / 'अहमेव पशूनामीशै'। 'नेजिह्मायन्तो नरकं पताम' / 'हल: नः शानच्झौ' (सू 2557) // 3432 / छन्दसि शायजपि (3-1-84) / अपि शब्दाच्छानच् / 'हृग्रहोर्भश्छन्दसि' (वा 4823) इति हस्य भः / 'गृभाय जिह्वया मधु'। 'बधान देव सवितः' / 'अनिदिताम्-' (सू 415) इति बनाते लोपः। 'गृभ्णामि ते' / 'मध्वा जभार' // 3433 / व्यत्ययो बहुलम् (3-1-85) / विकरणानां बहुलं व्यत्ययः स्याच्छन्दसि / 'आण्डा शुष्मस्य भेदति' / भिनत्तीति प्राप्ते / 'जरसा मरते पतिः' / नियत इति प्राप्ते / ‘इन्द्रो वस्तेन नेषतु' नयतेर्लोट् शप्सिपो द्वौ विकरणौ / ‘इन्द्रेण युजा तरुषेम वृत्रम्' / तरेमेत्यर्थः / तरतेविध्यादौ लिङ् / उः शप् सिप चेति त्रयो विकरणाः // ___“सुप्तिकुप्रग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च। व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन // " [भाष्यम्] ‘धुरि दक्षिणायाः' / दक्षिणस्यामिति प्राप्ते / 'चषालं ये अश्वयूपाय तक्षति' / तक्षन्तीति प्राप्ते। उपग्रहः परस्मैपदात्मनेपदे / 'ब्रह्मचारिणमिच्छते'। इच्छतीति प्राप्ते / 'प्रतीपमन्य ऊर्मियुध्यति' / युध्यते इति प्राप्ते / 'मधोस्तृप्ता इवासते' / मधुन इति प्राप्ते / नरः पुरुषः / 'अधा स वीरैर्दशभिर्वियूयाः' / वियूयादिति प्राप्ते / काल: कालवाची प्रत्ययः / 'श्वोऽनीनाधास्यमानेन' / लुटो विषये लट् / 'तमसो गा अदुक्षत्' / अधुक्षदिति प्राप्ते। 'मित्र वयं च सूरयः' / मित्रा वयमिति प्राप्ते / स्वरव्यत्ययस्तु वक्ष्यते / कर्तृशब्दः कारकमानपरः / तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययः / अन्नादाय / अण्विषयेऽच् / अवग्रहे विशेषः / यङो यशब्दादारभ्य 'लिङ्याशिष्यङ्' (सू 3434) इति डकारेण प्रत्याहारः / तेषां व्यत्ययो For Private And Personal Use Only