________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीरस्तु // // वैयाकरणसिद्धान्तकौमुदी // Mara अथ वैदिकप्रकरणम् / 3387 / छन्दसि पुनर्वस्वोरेकवचनम् (1-2-61) / द्वयारेकवचनं वा स्यात् / पुनर्वसुनक्षत्रं पुनर्वसू वा / लोके तु द्विवचनमेव // 3388 / विशाखयोश्च (1-2-62) / प्राग्वत् / विशाखा नक्षत्रम् / विशाखे वा // 3389 / षष्टीयुक्तश्छन्दसि वा (1-4-9) / षष्ठ्यन्तेन युक्तः पतिशब्दश्छन्दसि घिसंज्ञो वा स्यात् / क्षेत्रस्य पतिना वयम्'। इह वेति योग विभज्य छन्दसीत्यनुवर्तते / तेन 'सर्वे विधयश्छन्दसि वैकल्पिकाः' / 'बहुल छन्दसि' (सू 3401) इत्यादिरस्यैव प्रपञ्चः / 'यचि भम्' (सू 231) / 'नभोऽङ्गिरोमनुषां वत्युपसङ्ख्यानम्' (वा 1058) नभसा तुल्यं नभस्वत् / भत्वाद्रुत्वाभावः / 'अङ्गिरस्वदङ्गिरः' / 'मनुष्वदग्ने' / 'जनेरुसिः' (उणा) इति विहित उसिप्रत्ययो मनेरपि / बाहुलकात् / 'वृषण्वस्वश्वयोः' (वा 1059) / वृष वर्षकं वसु यस्य स वृषण्वसुः / वृषा अश्वो यस्य वृषणश्वः / इहान्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वे सति नलोपः प्राप्तो भत्वाद्धार्यते / अत एव ‘पदान्तस्य' (सू 198) इति णत्वनिषेधोऽपि न / 'अल्लोपोऽनः' (सू 234) इत्यल्लोपो न, अनङ्गत्वात् / 3390 / अयस्मयादीनि च्छन्दसि (1-4-20) / एतानि च्छन्दसि साधूनि / भपदसंज्ञाधिकाराद्यथायोगं संज्ञाद्वयं बोध्यम् / तथा च वार्तिकम् –'उभयसंज्ञान्यपीति वक्तव्यम्' (वा 1060) इति ‘स सुष्टुभास ऋकता गणेन' / पदत्वात्कुत्वम् / भत्वाजश्त्वाभावः। जश्त्वविधानार्थायाः पदसंज्ञाया भत्वसामर्थ्येन बाधात् / 'नैनं हिन्वन्त्यपि वाजिनेषु' / अत्र पदत्वाजश्त्वम् / भत्वात्कुत्वाभावः / 'ते प्राग्धातोः' (सू 2230) / 3391 / छन्दसि परेऽपि (1-4-81) / 3392 / व्यवहिताश्च (1-4-82) / ‘हरिभ्यां याह्योक आ'। 'आ मन्तैरिन्द्र हरिभिर्याहि' / 3393 / इन्धिभवतिभ्यां च (1-2-6) / आभ्यां परो लिट् कित् स्यात् / ‘समीधे दस्युहन्तमम्' / 'पुत्र ईधे अथर्वणः' / बभूव / इदं प्रत्याख्यातम् / ‘इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्यम्' (वा 594) इति // इति प्रथमोऽध्यायः। 3394 / तृतीया च होश्छन्दसि (2-3-3) / जुहोतेः कर्मणि तृतीया स्याहितीया च। 'यवाग्वाग्निहोत्रं जुहोति' / अग्निहोत्रशब्दोऽत्र हविषि वर्तते, 'यस्याग्निहोत्रमधिश्रितममेध्यमापद्येत' इत्यादिप्रयोगदर्शनात् / अग्नये हूयत इति व्युत्पत्तेश्च / यवाग्वाख्यं हविर्देवतो For Private And Personal Use Only