________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 720 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्तम् 3386 / अन्वच्यानुलोम्ये / (3-4-64) अन्वक्छब्दे उपपदे भुवः क्त्वाणमुलौ स्त आनुकूल्ये गम्यमाने / अन्वग्भूय आस्ते / अन्वग्भूत्वा-अन्वग्भावम् / अग्रत: पार्श्वत: पृष्ठतो वानुकूलो भूत्वा आस्त इत्यर्थः / 'आनुलोम्ये' किम् / अन्वग्भूत्वा तिष्ठति / पृष्ठतो भूत्वेत्यर्थः / इति कृदन्तप्रकरणम् / इत्थं लौकिकशब्दानां दिङ्मात्रमिह दर्शितम् / विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकौस्तुभे // भट्टोजिदीक्षितकृतिः सैषा सिद्धान्तकौमुदी। प्रीत्यै भूयाद्भगवतोभवानीविश्वनाथयोः // इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यामुत्तरार्ध समाप्तम् / सिद्ध भूग्रहणं व्यर्थमित्यत आह / कृञो निवृत्त्यर्थमिति // अन्वच्यानुलोम्ये // अनूचीत्येव वक्तुमुचितं सौत्रोऽयं निर्देशः / तियच्यपवर्गे इतिवत् / आनुलोम्यं आनुकूल्यम् / पृष्ठतो भूत्वेति // अग्निप्रथमाः प्रतिपद्यन्ते अन्वगध्वर्युरित्यादौ अन्वक्छब्दस्य पृष्ठभागे प्रसिद्धेरिति भावः ॥–इत्युत्तरकृदन्तप्रकरणम् // इति श्रीमत्सन्ततसन्तन्यमानश्येनकूर्मषोडशाररथचक्राकारादिबहुगुणविराजमानप्रौढापरिमित महाध्वरस्य श्रीशाहजी शरभजी तुक्कोजी भोसलचोळमहीमहेन्द्रामात्यधुरन्धरस्य श्रीमत आनन्दरायविद्वत्सार्वभौमस्याध्वर्युणा पञ्चपुरुषीपोष्येण बाल्य एव तद्दयानिवर्तितापरिमिताग्निविजृम्भितवाजपेयसर्वपृष्टाप्तोर्यामप्रमुखमखसन्तर्पितशतमखप्रमुखबर्हिर्मुखेन पदवाक्यप्रमाणपारावास्पारीणाग्रजन्मविश्वेश्वरवाजपेययाजितो लब्धविद्यावैशयेन अध्वरमीमांसाकुतूहलवृत्तिनिर्माणप्रकटितसर्वतन्त्रस्वातन्त्र्येण बोधायनापस्तम्बसत्याषाढभारद्वाजकात्यायनाश्वलायनद्राह्यायणादिकल्पसूत्रतद्भाष्यपारीणमहादेववाजपेययाजिसुतेन अन्नपूर्णाम्बागर्भजातेन वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां उत्तरार्धम् // सम्पूर्णम् // // बालमनोरमा सम्पूर्णा // | - -- - - For Private And Personal Use Only