________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 717 3373 / अपादाने परीप्सायाम् / (3-4-52) परीप्सा त्वरा / शय्योत्थायं धावति / एवं नाम त्वरते यदवश्यकर्तव्यमपि नापेक्षते / शय्योत्थानमात्रमपेक्षते / 3374 / द्वितीयायां च / (3-4-53) परीप्सायामित्येव / यष्टिग्राहं युध्यन्ते / लोष्टग्राहम् / 3375 / अपगुरो णमुलि / (6-1-53) 'गुरी उद्यमने' इत्यखैचो वा आत्स्याण्णमुलि / अस्यपगारं युध्यन्ते / अस्यपगोरम् / __ 3376 / स्वाङ्गे ध्रुवे / (3-4-54) द्वितीयायामित्येव / अध्रुवे स्वाङ्गे द्वितीयान्ते धातोर्णमुल् / भ्रूविक्षेपं कथयति / ध्रुवं विक्षेपम् / 'अध्रुवे' किम् / शिर उत्क्षिप्य / येनाङ्गेन विना न जीवनं तद्भवम् / 3377 / परिक्लिश्यमाने च / (3-4-55) सर्वतो विवाध्यमाने स्वाङ्गे द्वितीयान्ते णमुल्स्यात् / उर:प्रतिपेषं युध्यन्ते / कृत्स्नमुर: पीडयन्त इत्यर्थः / “उरोविदारं प्रतिचस्करे नखैः' / ध्रुवार्थमिदम् / 3378 / विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः।(३-४-५६) द्वितीयायामित्येव / द्वितीयान्त उपपदे विश्यादिभ्यो णमुल्स्याद्व्याप्यमाने आसेव्यमाने चार्थे गम्ये / गेहादिद्रव्याणां विश्यादिक्रियाभिः साकल्येन संबन्धो व्याप्तिः / क्रियायाः पौन:पुन्यमासेवा / 'नित्यवीप्सयोः' (सू 2140) 'तत्पुरुषस्याङ्गुलेः' इति टजिति भावः / अपादाने // अपादाने उपपदे धातोर्णमुल् स्यात् परीप्सायाङ्गम्यमानायामित्यर्थः / त्वरां दर्शयितुमाह। एवन्नामेत्यादि // द्वितीयायाञ्च // द्वितीयान्ते उपपदे धातोर्णमुलित्यर्थः / स्वाङ्गेऽध्रुवे // अध्रुवे इति छेद इति मत्वा आह। अध्रुव इति // ननु शिर उत्क्षिप्येति कथं प्रत्युदाहरणम् / शिरसोऽपि अध्रुवत्वादित्यत आह / येनाङ्गेनेति // परिक्लि // उरोविदारमिति // कृत्स्नमुर इत्यर्थः / प्रतिचस्कर इति // कृ विक्षेपे प्रतिपूर्वात्कर्माण लिट् / सुटकात्पूर्व इति अडभ्यासव्यवायेऽपीति चानुवृत्तौ किरतौ लवने हिंसायां प्रतेश्चेति सुट् / नखैः प्रतिचिक्षिप इत्यर्थः / ननु उरःप्रतिपषमित्यादौ स्वाङ्गत्वादेव पूर्वसूत्रेणैव सिद्धमित्यत आह / ध्रुवार्थमिति // उरो विना जीवनाभावात् उरः ध्रुवमिति भावः। विशिपति // गेहादिद्रव्याणामिति // तथा च गेहानुप्रवेशमास्ते इत्यत्र सर्वाणि गेहान्यनुप्रविश्यति पुनःपुनर्गेहमनुप्रविश्येति वा अर्थः / उभयथापि न द्वित्वमित्याह For Private And Personal Use Only