________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 716 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3369 / हिंसार्थानां च समानकर्मकाणाम् / (3-4-48) तृतीयान्त उपपदेऽनुप्रयोगधातुना समानकर्मकाद्धिसार्थात् णमुल्स्यात् / दण्डोपघातङ्गाः कालयति दण्डेनोपघातम् / दण्डताडम् / 'समानकर्मकाणाम्' इति किम् / दण्डेन चोरमाहत्य गाः कालयति / / _3370 / सप्तम्यां चोपपीडरुधकर्षः / (3-4-49) उपपूर्वेभ्य: पीडादिभ्यः सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल्स्यात् / पार्थोपपीडं शेते-पार्श्वयोरुपपीडम्-पार्वाभ्यामुपपीडम् / व्रजोपरोधं गाः स्थापयति / व्रजेन बजे उपरोधं वा / पाण्युपकर्ष धानाः संगृह्णाति / पाणावुपकर्षम्-पाणिनोपकर्षम् / 3371 / समासत्तौ / (3-4-50) तृतीयासप्तम्योर्धातोर्णमुल्स्यात्संनिकर्षे गम्यमाने / केशग्राहं युध्यन्ते युद्धसंरम्भात् / केशेषु गृहीत्वा / हस्तग्राहम्-हस्तेन गृहीत्वा / 3372 / प्रमाणे च / (3-4-51) तृतीयासप्तम्योरित्येव / व्यङ्गुलोत्कर्ष खण्डिकां छिनत्ति / ब्यङ्गुलेन व्यङ्गुले वोत्कर्षम् / तदेवेति // किमुपदश्येत्याकाङ्क्षायां तदेव मूलकमर्थात् कर्मत्वेनान्वेतीत्यर्थः / हिंसार्थानाश्च // दण्डोपघातङ्गाः कालयतीति / / 'कल विक्षेपे' चुरादिः / तत्रानुप्रयुज्यमान. कालयतेरुपहन्तेश्च गावः कर्म / अतस्समानकर्मकत्वमुपहन्तेरिति भावः / दण्डेनोपघातमिति // तृतीयाप्रभृतीन्यन्यतरस्यामिति उपपदसमासविकल्प इति भावः / दण्डताडमिति // 'तड आघाते' चुरादिः / सप्तम्याञ्चोपपीड // चात्तृतीयायामिति समुच्चीयते / 'कृष विलेखने' इति धातोश्शपि कृतलघूपधगुणस्य कषेति निर्देशः / अतस्तौदादिकस्य निरासः / पीड, रुध, कर्ष, एषां समाहारद्वन्द्वात्पञ्चम्यर्थे प्रथमा / पुंस्त्वञ्चार्षम् / उपपूर्वः पीडरुधकर्षः इति मध्यमपदलोपिसमासः / तदाह / उपपूर्वेभ्य इति // तृतीयाप्रभृतीन्यन्यतरस्याम्' इति उपपदसमासविकल्पं मत्वा आह / पार्श्वयोरुपपीडमिति // तौदादिकात्तु कृषेः क्वाप्रत्यय एव न तु णमुल् / क्षेत्र उपकृष्य बीजान्यावपति / हलेनोपकृष्येति / यद्यपि तौदादिकाऽपि विलेखनार्थक एव / तथापि क्षेत्रविषयविलेखन एव तस्य प्रवृत्तेरित्याहुः / समासत्तौ // समासत्तिपदं विवृणोति / सन्निकर्षे गम्यमाने इति // सनिकर्षोऽव्यवधानेन संयोगः / केशग्राहमिति || सन्निकर्षपरमेतत् / अत्यन्तं सन्निहिता युध्यन्ते इत्यर्थः / तदाह / युद्धसंरम्भादिति // युद्धातिशयवशाद्योद्धारः परस्परं अत्यन्तं सन्निहिता भवन्तीत्यर्थः / प्रमाणे च // इत्येवेति // तृतीयान्ते सप्तम्यन्ते चोपपदे धातोर्णमुल् स्यात् प्रमाणे गम्ये इत्यर्थः / ह्रस्वः खण्डः खण्डिका / द्यगुलेनेति For Private And Personal Use Only