________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 715 चान्कर्तरि / घृतनिधायं निहितं जलम् / घृतमिव सुरक्षितमित्यर्थः / अजकनाशं नष्टः / अजक इव नष्ट इत्यर्थः / 3367 / कषादिषु यथाविध्यनुप्रयोगः / (3-4-46) यस्माण्णमुलुक्तः स एवानुप्रयोक्तव्य इत्यर्थः / तथैवोदाहृतम् / 3368 / उपदंशस्तृतीयायाम् / (3-4-47) इतः प्रभृति पूर्वकाल इति संबध्यते / 'तृतीयाप्रभृतीन्यन्यतरस्याम्' (सू 784) इति वा समास: / मूलकोपदंशं भुङ्क्ते / मूलकेनोपदंशम् / दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात्तृतीया। यद्यप्युपदंशिना सह न शाब्दस्संबन्धस्तथाप्यार्थोऽस्त्येव, कर्मत्वात् / एतावतैव सामर्थ्येन प्रत्ययः समासश्च / तृतीयायामिति वचनसामर्थ्यात् / ततश्चायमर्थः मूलकेन भुते इति शाब्दान्वये किंकृत्वेत्याकाङ्क्षया उपदश्येति तदेव कर्मत्वेनान्वेति / कषादिषु // यस्मादिति // धातोरिति शेषः / णमुलुक्त इति // 'निमूलसमूलयोः कषः' इत्यारभ्य 'उपमाने कर्मणि च' इत्यन्तैस्सूत्रैरिति शेषः / तथैवोदाहृतमिति // निमूलकाषङ्कषतीत्यादीति शेषः / एवञ्च पृथगिह नोदाहर्तव्यमिति भावः। उपदंशस्तृतीयायाम् // सम्बद्ध्यते इति // मण्डूकप्लुत्येति शेषः / तृतीयान्ते उपपदे उपपूर्वाइंशधातोर्णमुल् समानकर्तृकयोः पूर्वकाले इत्यर्थः / नित्यमुपपदसमासमाशय आह / तृतीयाप्रभृतीनीति // ननु मूलकेनोपदंशं भुङ्क्ते मूलकेनोपदंशमित्यत्र मूलकस्य उपदंशनं प्रति कर्मत्वात् कथं मूलकात् तृतीया कथं वा उपदंशात् णमुल इत्यत आह / दश्यमानस्येत्यादि / प्रधानक्रियानुरोधात् परत्वाचेति भावः / ननु मूलकस्य भुजिक्रियां प्रति करणत्वे उपदंशनेन असामर्थ्यात्समासानुपपत्तिरिति शङ्कते। यद्यपीति // उपदंशिना सह मूलकस्य कर्मत्वेनान्वयश्शब्दगम्यो न भवति / तस्य भुजिक्रियां प्रति करणत्वेनान्वयस्योक्तत्वादित्याक्षेपः / समाधत्ते / तथापीति // भुजिकियां प्रति शाब्दमर्यादया करणत्वेनान्वितस्यापि मूलकस्योपदंशनं प्रति आर्थिकः कर्मत्वान्वयोऽस्त्येव / मूलकस्योपदंशनं प्रति वस्तुतः कर्मत्वस्य सत्त्वादित्यर्थः / नन्वार्थिककर्मत्वान्वयमादाय कथं तृतीया कथं वा णमुल् कथं वा समास इत्यत आह / एतावतैवेति // कुत एतदित्यत आह / तृतीयायामिति वचनसामर्थ्यादिति // यदि तृतीयान्ते शाब्दान्वय एवात्र विवक्ष्येत, तदा करण इत्येवावक्ष्यत् 'करणे हनः' इतिवदिति भावः / मूलकस्य भुजिक्रियां प्रति करणत्वान्वयश्शाब्दः / उपदंशे कर्मत्वान्वयः आर्थिकः इत्येतदुपपादयति / ततश्चायमर्थ इति // मूलकेन भुङ्क्ते इत्यन्वयश्शाब्दः / प्रधानक्रियानुरोधात्परत्वाच्च तृतीयाविभक्ते प्रवृत्तेरिति भावः / किंकृत्वेति // किकृत्वा मूलकेन भुङ्क्ते इत्याकाङ्क्षायां उपदश्येत्यन्वेतीत्यर्थः। For Private And Personal Use Only