________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 713 3356 / शुष्कचूर्णरूक्षेषु पिषः / (3-4-35) एषु कर्मसु पिषेर्णमुल् / शुष्कपेषं पिनष्टि / शुष्कं पिनष्टीत्यर्थः / चूर्णपेषम् / रूक्षपेषम् / 3357 / समूलाकृतजीवेषु हन्कृञ्ग्रहः। (3-4-36) कर्मणीत्येव / समूलघातं हन्ति / अकृतकारं करोति / जीवग्राहं गृह्णाति / जीवतीति जीवः / इगुपधलक्षण: कः / जीवन्तं गृह्णातीत्यर्थः / 3358 / करणे हनः / (3-4-37) पादघातं हन्ति / पादेन हन्तीत्यर्थः / यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थोऽयं योग: / भिन्नधातुसंबंधे तु 'हिंसार्थानां च-' (सू 3369) इति वक्ष्यते / ___3359 / स्नेहने पिषः / (3-4-38) स्निह्यते येन तस्मिन्करणे पिषर्णमुल् / उदपेषं पिनष्टि / उदकेन पिनष्टीत्यर्थः / पौनरुक्त्यम्परिहरति / एकस्यापीति // निमूलसमूलकषणापेक्षया केवलकषणमन्यत् / यथा इन्द्रो महेन्द्र इति भावः / तेन सामान्येति // निमूलसमूलकषणात्मकङ्कषणमिति बोधः / यथा महादेवो देव इत्यादाविति भावः / शुकचूर्णरूक्षेषु पिषः // कर्मस्विति // उपपदेष्विति शेषः / अत्र पिषधातोरनुप्रयोग: / समूलाकृत // समूल अकृत जीव एषान्द्वन्द्वः / कर्मणीत्येव / समूलादिषु कर्मसूपपदेषु हन् कृञ् ग्रह एभ्यो णमुलित्यर्थः / यथासङ्ख्यमत्रेष्यते / जीवशब्दस्य भावघअन्तत्वे प्राणधारणं गृह्णातीत्याश्रयणे हन्तीत्यर्थः स्यात् , न तु जीवन्तगृहातीत्यर्थः स्यादित्यत आह / जीवतीति जीव इति // ननु 'अकर्तरि कारके' इति पर्युदासात् कथङ्कर्तरि घअित्यत आह / इगुपधेति // करणे हनः // ननु हिंसार्थानां च समानकर्मकाणां इत्यनुपदं वक्ष्यमाणसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह / यथाविधीत्यादि // कषादिषु यथाविध्यनुप्रयोगसिद्ध्यर्थस्सन् 'उपपदमतिङ्' इति नित्यसमासार्थोऽयमारम्भ इत्यर्थः / अनुप्रयोगार्थो नित्यसमासार्थश्चेति यावत् / हिंसार्थानाञ्चेति सूत्रञ्च कषादिबहिर्भूतं तस्यात्र प्रवृत्तौ तु अनुप्रयोगो न स्यात् / किञ्च 'हिंसार्थानाञ्च' इति सूत्रं 'उपदंशस्तृतीयायाम्' इत्युत्तरम्पठितम् / तस्यात्र प्रवृत्तौ 'तृतीयाप्रभृतीन्यन्यतरस्याम्' इति वैकल्पिक उपपदसमासः स्यादिति भावः / भाष्ये तु अहिंसार्थनित्यसमासार्थञ्चेति स्थितम् / तर्हि हिंसानाञ्चेत्यस्य को विषय इत्यत आह / भिन्नेति // णमुल्प्रकृतिभूतहनधात्वपेक्षया धात्वन्तरयोगे तु दण्डोपघातङ्गाः कालयति दण्डेनोपघातमित्यत्र 'हिसार्थानाञ्च' इत्यस्य प्रवृत्तिर्वक्ष्यते इत्यर्थः / स्नेहने पिषः॥ उदपेषमिति // 'पेषंवासवाहनधिषु च' इति उदकशब्दस्य 90 For Private And Personal Use Only