________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 3348 / अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् / (3-4-27) एषु कृञो णमुल्स्यात् सिद्धोऽप्रयोगोऽस्यैवंभूतश्चेत्कृञ् / व्यर्थत्वात्प्रयोगानह इत्यर्थः / अन्यथाकारम् / एवंकारम् / कथंकारम् / इत्थंकारम् भुते / इत्थं भुङ्क्त इत्यर्थः / सिद्ध-' इति किम् / शिरोऽन्यथा कृत्वा भुङ्क्ते / ___ 3349 / यथातथयोरसूयाप्रतिवचने / (3-4-28) कृत्रः सिद्धाप्रयोग इत्येव, असूयया प्रतिवचने / यथाकारमहं भोक्ष्ये किं तवानेन / 3350 / कर्मणि दृशिविदोः साकल्ये / (3-4-29) कर्मण्युपपदे णमुल्स्यात् / कन्यादशै वरयति / सर्वाः कन्या इत्यर्थः / ब्राह्मणवेदं भोजयति / यं यं ब्राह्मणं जानाति लभते विचारयति वा तं सर्व भोजयतीत्यर्थः / तथादर्शनादिति भावः / वाऽसरूपेण क्त्वापीति // यद्यपि 'स्त्रियां क्तिन्' इत्यतः प्रागेव वाऽसरूपविधिरिति भाष्ये स्थितम् / तथापि तत्रैव भाष्ये 'वायां वावचनम्' इति क्वाप्रत्ययविषये वाऽसरूपविधिप्रवृत्तेर्विशिष्य वचनादिह क्वापि भवतीत्यर्थः / वाऽसरूपविधिः स्त्रियामित्यधिकारात् प्रागूलञ्च भवतीति पक्षान्तरमपि तत्रैव भाष्ये स्थितम् / तत्पक्षे वायां वाऽसरूपप्रवृत्तिनिर्बाधेत्यास्तान्तावत् / अन्यथैवं // अन्यथा एवम् कथम् इत्थम् एषामव्ययानां द्वन्द्वात्सप्तमीबहुवचनम् / सिद्धः अप्रयोग: प्रयोगाभावः यस्य कृषः स सिद्धाप्रयोग इति विग्रहः / तदाह। एषु कृञ इत्यादि // ननु कृञः अप्रयोगे कथन्तदर्थावगतिः अर्थावगत्यभावे तत्प्रयोगो वा किमर्थ इत्यत आह / व्यर्थत्वादिति // निष्फलत्वादिति भावः / अर्थस्याविवक्षितत्वेऽपि णमुल्प्रत्ययसाधुत्वार्थ तत्प्रयोग इति भावः / तदेव दर्शयति / इत्थं भुते इत्यर्थ इति // 'समानकर्तृकयोः पूर्वकाले' इत्यसम्भवान्नानुवर्तते इति भावः। सिद्धति किमिति // सिद्धाप्रयोगश्चेदिति किमर्थमित्यर्थः / भाष्ये अन्यथा कृत्वा चोदितमिति प्रयोगात् समानकर्तृकत्वाभावेऽपि वाप्रत्ययो बोध्यः / यथातथयोः // इत्येवेति // यथा तथा अनयोरुपपदयोः कृञः णमुल् स्यात्सिद्धाप्रयोगश्चेत् कृत्रिति फलितम् / असूयया प्रतिवचनमिति विग्रहः / 'कर्तृकरणे कृता बहुलम्' इति समासः / तदाह / असूययति // कर्मणि दृशिविदोः // कर्मणीति नार्थनिर्देश इत्याह / कर्मण्युपपदे इति // कर्मण्युपपदे तदर्थस्य धात्वर्थ प्रति कर्मभूतस्य साकल्ये गम्ये दृशिविदिभ्यां णमुल् इति फलितम् / समानकर्तृकयोः पूर्वकाले इत्यनुवर्तत एव / वरयतीति // ‘वर ईप्सायाम्' चुरादौ कथादिरदन्तः / अल्लोपस्य स्थानिवत्त्वान्नोपधावृद्धिः / विदिं विवृणोति / जानाति लभते विचारयति वेति // “सत्तायां विद्यत ज्ञाने वेत्ति विन्ते विचारणे / विन्दते विन्दति प्राप्ती श्यनूलुकश्नशेष्विदं क्रमात्” इति प्रागुक्तम् / तत्र सत्तार्थकस्य विदेरिह न ग्रहणम् For Private And Personal Use Only