________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 710 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त क्त्वाणमुलौ वा स्तः / अग्रे भोजं ब्रजति / अग्रे भुक्त्वा / प्रथमं भोजम् / प्रथमं भुक्त्वा / पूर्व भोजम्-पूर्व भुक्त्वा / पक्षे लडादयः / अग्रे भुङ्क्ते ततो व्रजति / आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेन नित्यमेव विधिः / अग्रे भोजभोज ब्रजति / भुक्त्वाभुक्त्वा / 3346 / कर्मण्याक्रोशे कृञः खमुञ् / (3-4-25) कर्मण्युपपदे आक्रोशे गम्ये कृत्रः खमुञ् स्यात् / चौरंकारमाक्रोशति / करोतिरुच्चारणे / चौरशब्दमुच्चार्येत्यर्थः / 3347 / स्वादुमि (णमुल / ) (3-4-26) स्वाद्वर्थेषु कृयो णमुल्खादेककर्तृकयोः पूर्वकाले / स्वादुशब्दस्य मान्तत्वं निपात्यते / अस्वाद्वी स्वाद्वीं कृत्वा भुते स्वादुंकारं भुते / संपन्नंकारम् / लवणंकारम् / संपन्नलवणशब्दौ स्वादुपर्यायौ / वाऽसरूपेण क्त्वापि / स्वादुं कृत्वा भुङ्क्ते। एतच्च भाष्ये स्पष्टम् / प्रथमं भोजमिति // प्रथममिति क्रियाविशेषणम् / पूर्व भोजमिति // पूर्वमिति क्रियाविशेषणम् / पक्षे इति // काणमुलौ तावदव्ययकृत्त्वाद्भावार्थको / यदा तु कर्तृविवक्षा तदा लडादय इत्यर्थः / ननु अग्रेप्रथमपूर्वपदेषूपपदेषु वाणमुलौ परत्वादाभीक्ष्ण्येऽपि स्यातामित्यत आह / आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेनेति // व्याख्यानादिति भावः / कर्मण्याक्रोशे // कर्मणात्युपपदनिर्देशः / आक्रोश इति द्योत्यार्थ इति मत्वा व्याचष्टे / कर्मण्युपपदे आक्रोशे गम्ये कृत्रः खमुनिति // स्पष्टत्वात् न व्याख्येयमिति भावः / चौरङ्कारमिति // उपपदसमासे 'अरुट्टैिषदजन्तस्य' इति मुम् / स्वादुमि णमुल् // स्वादुमीत्यर्थग्रहणम् / व्याख्यानात् / तथा च स्वादुपर्याये उपपद इति लभ्यते / 'कर्मण्याक्रोशे' इति पूर्वसूत्रात् कृत्र इत्यनुवर्तते नतु खमुन्, अस्वरितत्वात् / ततश्च 'आभीक्ष्ण्ये णमुल् च' इत्यतः णमुलित्यनुवर्तते समानकर्तृकयोः ‘पूर्वकाले' इति सूत्रञ्च / तदाह / स्वाद्वर्थेष्वित्यादिना // ननु स्वादुशब्दस्य स्वादावित्येव निर्देश उचित इत्यत आह / स्वादुशब्दस्येति // नन्वत्र खमुजेवानुवर्तताम् / एवञ्च स्वादुमि मान्तत्वनिपातनमपि न कर्तव्यमित्याशङ्कय स्त्रियां च्च्यन्तमुदाहरति / अस्वाद्वीमिति // यवागूमपूपिकामित्यादि विशेष्यम् / अत्र णमुलि विवक्षिते मान्तत्वे निपातिते उदन्तत्वाभावात् 'ओतो गुणवचनात्' इति न डीप् / खमुनि कृते 'अरुर्द्विषत्' इति मुमि तु स्वाद्विकारमित्येव प्रसज्येत / किञ्च व्यन्तस्याव्ययत्वात् 'अरुर्द्विषत्' इति मुम् दुर्लभः, तत्र मुम्विधौ अनव्ययस्येत्यनुवृत्तेः / ततश्च अस्वा, स्वादुं कृत्वा भुङ्क्ते स्वादुङ्कारम्भुङ्क्ते इत्यत्रापि मुम् न स्यात् , खमुञः खित्त्वस्य चोरङ्कारमित्यत्र सावकाशत्वात् / किञ्च 'च्चौ' इति दीर्घापत्तिः / अतो णमुलि स्वादुशब्दे मान्तत्वनिपातनमिति भावः। स्वादुमीत्यर्थग्रहणस्य प्रयोजनमाह / सम्पन्नङ्कारमिति // अत्र ‘अस्य च्चौ' इति ईत्त्वाभावोऽपि मान्तत्वनिपातनस्य फलं बोध्यम् / स्वादुपर्यायाविति // वृत्त्यादिग्रन्थेषु For Private And Personal Use Only