________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। जाने। नमति शिवम् / स्मृत्वास्मृत्वा / पायंपायम् / भोजभोजम् / श्रावंश्रावम् / 'चिण्णमुलो:- (सू 2762) इति णमुल्परे णौ वा दीर्घः / गामंगामम् / गमंगमम् / ‘विभाषा चिण्णमुलो:' (सू 2765) इति नुम्वा / लम्भंलम्भम् / लाभलाभम् / व्यवस्थितविभाषयोपसृष्टस्य नित्यं नुम् / प्रलम्भंप्रलम्भम् / ‘जाग्रोऽविचिण्णल्-' (सू 2480) इति गुणः / जागरंजागरम् / ण्यन्तस्याप्येवम् / __ 3344 / न यद्यनाकाङ्के / (3-4-23) यच्छब्द उपपदे पूर्वकाले यत्प्राप्तं तन्न, यत्र पूर्वोत्तरे क्रिये तद्वाक्यमपरं नाकाङ्क्षति चेत् / यदयं भुङ्क्ते ततः पठति / इह क्त्वाणमुलौ न / 'अनाकाङ्के' किम् / यदयं भुक्त्वा व्रजति ततोऽधीते / 3345 / विभाषाऽग्रेप्रथमपूर्वेषु / (3-4-24) आभीक्ष्ण्य इति नानुवर्तते / एपूपपदेषु समानकर्तृकयोः पूर्वकाले पक्षेऽपि क्वाविधौ वाऽसरूपवचनस्य वाऽसरूपसूत्रभाष्ये प्रपञ्चितत्वात् / तथापि ‘विभाषाग्रे प्रथम' इति सूत्र उभयोर्विधानाय चकारः / तत्र हि अग्रेभोजं व्रजति देवदत्तः अग्रे भुक्ता इत्यादौ देवदत्तकर्तृकभोजने यज्ञदत्तादिकर्तृकभोजनापेक्षया पूर्वकालत्वमग्रादिशब्देन बोध्यते, न तु व्रजनादिक्रियापेक्षया पूर्वकालत्वम् / ततश्च 'समानकर्तृकयोः' इति त्वाप्रत्ययस्य तत्र न प्रसक्तिः / नापि 'विभाषाने' इत्यनेन आभीक्ष्ण्ये तत्राप्राप्तविधिरिति युज्यते / आभीक्ष्ण्ये पूर्वविप्रतिषेधेन 'आभीक्ष्ण्ये णमुल् च' इत्यस्यैव प्रवृत्तेरिष्टत्वादिति शब्देन्दुशेखरे विस्तरः / द्वित्वमिति // 'नित्यवीप्सयोः' इत्यनेनेति शेषः / स्मृत्वास्मृत्वेति // नमति शिवम् इत्यनुषज्यते / पायंपायमिति // 'आतो युक् चिकृतोः' इति युक् / वा दीर्घ इति // गमेय॑न्ताण्णमुलि ‘मितां ह्रस्वः' इति ह्रस्वे कृते चिण्णमुलोः' इति दीर्घविकल्प इत्यर्थः / व्यवस्थितेति // व्याख्या नादिति भावः / उपसृष्टस्येति // उपसर्गपूर्वस्येत्यर्थः / जागृधातोर्णमुलि वृद्धिमाशङ्कय आह / जाग्र इति // ण्यन्तस्याप्येवमिति // जागृधातोर्णी वृद्धिं बाधित्वा 'जाग्रोऽविचिण्णल्डित्सु' इति गुणे णिलोपे जागरमित्येव रूपमिति भावः / न यद्यनाकाङ्के / / यत्प्राप्तमिति // वा णमुल् चैत्यर्थः / यत्रेति // यस्मिन्वाक्ये पूर्वोत्तरकालिकक्रियापदे स्तः तद्वाक्यं वाक्यान्तरं नाकाङ्क्षति चेदित्यर्थः / पूर्वोत्तरकालिकक्रियापदद्वययुक्तं वाक्यं वाक्यान्तरं नाकाङ्कति चेत् इति यावत् / यदयमिति // यदित्यव्ययम् / यदायं भुङ्क्ते ततः परं पठतीत्यर्थः / इदमेकं वाक्यं भुजिपठिक्रियापदद्वययुक्तं न वाक्यान्तरमाकाश्तीति भावः / यदयं भुक्त्वा व्रजतीति // भुजिवजिक्रियापदद्वययुक्तमिदं वाक्यम् ततः अधीत इति वाक्यान्तरमाकाङ्क्षति नात्रायं निषेध इति भावः / विभाषाग्रे || अग्रे, प्रथम, पूर्व, एषां द्वन्द्वः / अग्रे इत्यव्ययम् / एदन्तं वा निपातनात् / नानुवर्तते इति // For Private And Personal Use Only