________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3334 / वा ल्यपि / (6-4-38) अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्याल्ल्यपि / व्यवस्थितविभाषेयम् / तेन मान्तानिटां वा, नान्तानिटां वनादीनां च नित्यम् / आगत्य-आगम्य / प्रणत्य-प्रणम्य / प्रहत्य / प्रमत्य / प्रवत्य / वितत्य / ‘अदो जग्धिः-' (सू 3080) / 'अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधते' / इणः परत्वाभावात् / तदाह / इह षत्वन्नेति // षत्वे एकादेशस्यासिद्धत्व प्रासङ्गिकमुदाहृत्य प्रकृते ल्यपि तुग्विधावसिद्धत्वमुदाहरति / अधीत्येति // 'इङ् अध्ययने' नित्यमधिपूर्वः तस्मात् वो ल्यप् / प्रेत्येति // प्रपूर्वादिण्धातोः क्वो ल्यप् / इहोभयत्र सवर्णदीर्घस्य आद्गुणस्य चासिद्धत्वात् 'ह्रस्वस्य पिति' इति तुक् / एकादेशस्यासिद्धत्वाभावे तु ह्रस्वाभावात्तुक् न स्यात् / तदाह / ह्रस्वस्येति तुगिति // वा ल्यपि // 'अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपः' इत्युत्तरमिदं सूत्रम् / तदाह / अनुदात्तेत्यादि // अनुदात्तोपदेशानां वनतितनोत्यादीनाञ्च अनुदात्तोपदेशेत्युक्तो नलोपो ल्यपि वा स्यादित्यर्थः / व्यवस्थितविभाषेति // व्याख्यानादिति भावः / मान्तानिटां वेति // गम् , नम् , रम् , यमां पाक्षिको मलोप इत्यर्थः / नान्तेति // नान्तेषु मन्यहनावनिटौ तयोः वनादीनाञ्च अनुदात्तोपदेशेत्यनेन नलोपो नियं स्यादित्यर्थः / नान्तानिटामिति बहुवचनन्तु प्रयोगबहुत्वाभिप्रायम् / मान्तानामुदाहरति / आगत्येति // गमेरनुनासिकलोपे तुक् / प्रणत्येति // नमेरनुनासिकलोपपक्षे तुक् / विरम्य, विरत्य, प्रयत्य, प्रयम्य, इत्यप्युदाहार्यम् / नान्तयोरुदाहरति / प्रहत्य / प्रमत्येति // हनो मन्यतेश्च नित्यं नलोपः / प्रवत्येति // वनेर्नित्यं नलोपः, तुक् / वितत्येति // तनोतेनित्यं नलोपः, तुक् / भाष्ये तु 'वा ल्यपि' इति सूत्रन्न दृश्यते / 'अनुदात्त' इति सूत्रे 'अनुदात्तोपदेशेऽनुनासिकलोपो ल्यपि च' इति 'वामः' इति च वार्तिकं पठितम् / ल्यपि च अनुदात्तोपदेश इति नलोपो भवति / मकारान्तानां तु वेत्यर्थः / अथ प्रजग्ध्येत्युदाहरणं मनसि निधाय तत्र अदधातोः वो ल्यपि 'अदो जग्धिय॑प्तिकिति' इति जग्ध्यादेशविधि स्मारयति / अदो जग्धिरिति // आदेशे इकार उच्चारणार्थः / ननु विधायेत्यत्र 'दधातेर्हिः' इति हिभावः प्राप्नोति / न च तस्य तादौ किति विधानात् ल्यपि कृते कथं तत्प्राप्तिः / अलाश्रयविधौ स्थानिवत्त्वाभावादिति वाच्यम् / परस्मादपि ल्यपः प्रागेवान्तरङ्गत्वात् हिभावप्रवृत्ते?निवारत्वात् / तथा प्रदायेत्यत्र तादौ किति विहितमित्त्वं ल्यपः प्रागेवान्तरङ्गत्वात् प्राप्नोति / तथा प्रखन्येत्यत्र 'जनसनखनां सन्झलोः' इति झलादिलक्षणमात्वं ल्यपः प्रागेव प्राप्नोति / तथा 'द्यतिस्यतिमास्थामित्ति किति' इति इत्त्वं ल्यपः प्रागेव प्राप्नोति / तथा प्रक्रम्येत्यत्र ‘क्रमश्च वि' इति झलादौ कि विहितमुपधादीर्घत्वं ल्यपः प्रागेव प्राप्नोति / तथा आपृच्छ्य प्रदीध्येत्यत्र ‘च्छोः' इति शूठौ झलादित्वलक्षणौ ल्यपः प्रागेव स्याताम् / तथा प्रदीव्येत्यत्र बलादिलक्षणः इट ल्यपः प्रागेव प्राप्नोतीत्याशङ्कय आह / अन्तरङ्गानपीति // कुत एतदित्यत आह / जग्धिविधाविति // 'अदो अग्धिस्ति किति' इत्येतावतैव प्रजग्ध्य For Private And Personal Use Only