________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / परेण पूर्वस्यावरेण परख योगे गम्ये धातोः क्त्वा स्यात् / अप्राप्य नदी पर्वतः / परनदीयोगोऽत्र पर्वतस्य / अतिक्रम्य पर्वतं स्थिता नदी / अवरपर्वतयोगोऽत्र नद्याः / 3320 / समानकर्तृकयोः पूर्वकाले / (3-4-21) समानकर्तृकयोर्धास्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् / भुक्त्वा व्रजति / द्वित्वमतन्त्रम् / स्नात्वा भुक्त्वा पीत्वा व्रजति / 'अनुदात्त-' (सू 2428) इत्यनुनासिकलोपः / विष्णुं नत्वा स्तौति / स्वरत्यादेः 'श्रयुकः परेण पूर्वस्येति // अवरस्येत्यर्थः / परावरशब्दौ हि क्रमात् व्यवहिताव्यवहितदेशवृत्तवाचिनौ / क्त्वा स्यादिति // 'अव्ययकृतो भावे' इति वचनादयमपि भावार्थक एव / अवरस्य परयोगे उदाहरति / अप्राप्य नदीम्पर्वत इति // विन्ध्यपर्वताद्दक्षिणदेशे निवसतः विन्ध्यं गङ्गाञ्च नदीमधिकृत्य प्रवृत्तमिदं वाक्यम् / विन्ध्यस्योत्तरत एव हि गङ्गा। तथा च दक्षिणदेशस्थानां गङ्गोत्तरणेन विना विन्ध्यपर्वतः प्राप्यत्वेन स्थित इत्यर्थः, विन्ध्यस्य दक्षिणतो गङ्गाया अभावादिति भावः / तथा च दक्षिणदेशस्थानां विन्ध्यव्यवहिता गङ्गा। दक्षिणदेशीयापेक्षया अव्यवहितस्य विन्ध्यस्य दाक्षिणात्यापेक्षया व्यवहितया गङ्गया योगो गम्यते / तदाह / परनदीयोगोऽत्र पर्वतस्येति // अथापरेण परस्य योगे उदाहरति / अतिक्रम्य पर्वतं स्थिता नदीति // दाक्षिणात्यानाम् अव्यवहितविन्ध्यपर्वतातिक्रमेणैव व्यवहिता गङ्गा प्राप्यत्वेन स्थितेत्यर्थः / अत्र अव्यवाहितेन विन्ध्येन दाक्षिणात्यापेक्षया व्यवहितायाः गङ्गायाः योगो गम्यते / तदाह / अवरपर्वतयोगोऽत्र नद्या इति // इह अप्राप्तेरतिक्रमणस्य च विन्ध्यस्थितिपूर्वकालकत्वाभावात् 'समानकर्तृकयोः पूर्व' इत्यस्य न प्राप्तिः / समानकर्तृकयोः // समानकर्तृकयोरिति निर्धारणे षष्ठी / पूर्वकाल इत्यस्य पूर्वकालके धात्वर्थे इत्यर्थः / विद्यमानादिति शेषः / क्त्वा स्यादिति // अव्ययकृत्वाद्भावार्थकोऽयम् / भुक्त्वा बजतीति // पूर्वकालिकाद्भोजनात् उत्तरकालिकं व्रजनमित्यर्थः / द्वित्वमिति // समानकर्तृकयोरिति द्वित्वमविवक्षितमिति भावः / स्नात्वेति // स्नान भोजनपानोत्तरकालिकं व्रजनमित्यर्थः / अत्र वजनापेक्षया स्नानादीनाम्बहूनाम्पूर्वकालिकत्वेऽपि वेति भावः / एतच्च भाष्ये स्पष्टम् / पूर्वम्भुङ्क्ते ततो व्रजतीत्यत्र तु पूर्वशब्देनैव पूर्वत्वस्यावगमात् 'उक्तार्थानामप्रयोग.' इति न्यायात् न वा / पूर्वम्भुक्त्वा ततो व्रजतीत्यत्र तु न क्रिययोः पौर्वापर्य किन्तु कोरेव / अन्येभ्यो भोक्तृभ्यः पूर्वम्भुक्त्वा पश्चाद्रूजत्यन्येभ्यो भोक्तृभ्यः इत्यर्थः / आस्वते भोक्तुमित्यत्र तु वासरूपविधिना लट् इति भाष्यादौ विस्तरः / नमधातोः क्वाप्रत्यये आह / अनुदात्तेतीति // स्वरति सूति सूयतिधूभ्यः वाप्रत्ययस्य 'श्रयुकः किति' इति निषेधम्बाधित्वा ‘स्वरतिसूतिसूयति' इति इड्विकल्पमाशङ्कय आह / स्वरत्यादेरिति // 'आर्धधातुकस्येट्' इत्यादेरिड्डिधिकाण्डात् प्राक् 'नेडशिकृति' इत्यादेरिनिषेधकाण्डस्यारम्भसामर्थ्यात् इह पूर्वविप्रतिषेधमाश्रित्य 'श्रथुकः किति' इति For Private And Personal Use Only