________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 700 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3316 / अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा / (3-4-18) - प्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् / प्राचांग्रहणं पूजार्थम् / 'अमैवाव्ययेन' (सू 783) इति नियमान्नोपपदसमास: / 'दो दद्धोः' (सू 3077) अलं दत्त्वा / 'घुमास्था-' (सू 2462) / पीत्वा खलु / 'अलंखल्वोः' किम् / मा कार्षीत् / प्रतिषेधयोः' किम् / अलंकारः / 3317 / उदीचां माङो व्यतीहारे / (3-4-19) व्यतीहारेऽर्थे माङः क्त्वा स्यात् / अपूर्वकालामिदम् / 3318 / मयतेरिदन्यतरस्याम् / (6-4-70) मेङ इकारोऽन्तादेश: स्याद्वा ल्यपि / अपमित्य याचते / अपमाय / उदीचांग्रहणाद्यथाप्राप्तमपि / याचित्वा अपमयते / 3319 / परावरयोगे च / (3-4-20) विधिस्तु 'स्त्रियां क्तिन्' इत्यतः प्रागेवेति 'प्रैषातिसर्ग' इति सूत्रे भाष्ये स्पष्टम् / अलं खल्वोः // क्त्वा स्यादिति // भावार्थकोऽयम् / 'अव्ययकृतो भावे' इति वचनात् / एतच्च 'तुमर्थे सेसेन' इति सूत्रे भाष्ये स्पष्टम् / ननु 'उदीचां माङो व्यतीहारे' इत्युत्तरसूत्रे उदीचाब्रहणादस्य नित्यत्वावश्यकत्वात् प्राचाङ्ग्रहणं व्यर्थमित्यत आह / प्राचांग्रहणं पूजार्थमिति // न च वाऽसरूपविधिराशयः / तस्य 'स्त्रियां क्तिन्' इत्यतः प्रागेव प्रवृत्तेरुक्तत्वात्। अलं रोदनेनेत्यादि तु बहुलग्रहणात्समाधेयमित्यलम् / उपपदसमासे ल्यपमाशङ्कय आह / अमैवाव्ययेनेति // अलन्दत्वेति // दानेन किञ्चिदपि साध्यन्नास्तीत्यर्थः / ईत्व स्मारयति घुमास्थेति // पीत्वा खल्विति // पानेन साध्यन्नास्तीत्यर्थः / उदीचां माङो // व्यतीहारो विनिमयः 'समानकर्तृकयोः पूर्वकाले' इत्यनेन सिद्धिमाशङ्कय आह। अपूर्वकालार्थमिति॥ मयतेरिदन्यतरस्याम् // 'वाऽन्यस्य संयोगादेः' इत्यतो वेति 'न ल्यपि' इत्यतो ल्यपीति चानुवर्तते इति भावः / अपमित्य याचत इति // त्वया गौर्दत्ता चेत् मया महिषी दीयते इत्येवं विनिमयं कर्तुं गां याचते इत्यर्थः / इह विनिमयस्य पूर्वकालिकत्वाभावात् समानकर्तृकयोरित्यस्य न प्राप्तिः / प्रत्युत याचनाया एव पूर्वकालिकत्वात् याचेः त्वाप्राप्तिः। गतिसमासे वो ल्यप् इत्वन्तुक् / अपमायेति // इत्वाभावे रूपम् / 'ईद्यति' इति ईत्वन्तु न, 'न ल्यपि' इति निषेधात् / उदीचाङ्ग्रहणादिति // तेन मेडो क्वाप्रत्ययस्य विकल्पलाभात् तदभावे याचेः पूर्वकालक्रियावृत्तित्वात् समानकर्तृकयोरिति क्वेति भावः / परावरयोगे च // परावरयोर्योगे इति विग्रहः / योगशब्दस्य प्रत्येकमन्वयः / परयोगे अवरयोगे च वेति लभ्यते। परेण कस्य योग इत्याकांक्षायां अवरस्येति लभ्यते। अवरेण कस्य योग इत्याकांक्षायाम्परखेति लभ्यते / तदाह / For Private And Personal Use Only