________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 692 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त (वा 2228) / रेफः / मत्वर्थाच्छः' (वा 2229) / बहुलवचनादकारलोपः / मत्वर्थीयः / 'इणजादिभ्यः' (वा 2230) / आजि: / आतिः / ‘इञ्वपादिभ्यः' (वा 2231) / वापिः / वासिः / स्वरे भेदः / 'इक्कष्यादिभ्यः' (वा 2232) / कृषिः / गिरिः।। 3286 / संज्ञायाम् / (3-3-109) अत्र धातोवुल् / उद्दालकपुष्पभञ्जिका / वरणा पूरिका अपूपविशेषः / 3287 / विभाषाख्यानपरिप्रश्नयोरिञ्च / (3-3-110) परिप्रश्न आख्याने च गम्य इवात् / चात् ण्वुल् / विभाषोक्तेर्यथाप्राप्तसुबुत्पत्तिः। ककारस्य नेत्संज्ञा, प्रयोजनाभावात् / अनार्धधातुकतया आकार इत्यादौ आतो लोपाप्रसक्तेः / अनार्धधातुकत्वादेव नेट् / बहुलग्रहणानुवृत्तः क्वचिन्न / 'अस्य च्चौ' इत्यादौ / ककार इति // कवर्ण इत्यर्थः / प्रकृतावकार उच्चारणार्थः / 'न पुनरन्तरेणाचं व्यञ्जनस्योच्चारणं भवति' इति ‘उच्चैरुदात्तः' इति सूत्रभाष्यात् / क्वचित्सङ्घातादपि कारप्रत्ययः, यथा एवकार इत्यादौ, वषट्कार इति सूत्रनिर्देशात् सर्वे चकाराः प्रत्याख्यायन्ते इति भाष्याच्च / रादिफ इति // वाच्य इति शेषः / वाऽसरूपविधिना कारप्रत्ययोऽपि / अत्र स्त्रियामित्यस्य अनुवृत्तेरनभ्युपगमेन अस्त्रियामिति निषेधाभावात् / मत्वर्थाच्छ इति // मत्वर्थशब्दात् स्वार्थे छप्रत्ययो वाच्य इत्यर्थः / ननु मत्वर्थीय इत्यत्र कथं 'यस्येति च' इत्यकारलोपः, अतद्धितपरत्वात् अभत्वाच्चेत्यत आह / बहुलवचनादकारलोप इति // मत्वर्थीय इति // मतोरर्थो यस्य प्रत्ययस्य स मत्वर्थः / स एव मत्वर्थीयः / 'तसौ मत्वर्थे' इत्यत्र तु बहुलग्रहणान्न / 'शैषिकान्मतुबर्थीयात्' इत्यत्र भवार्थे गहादित्वात् छो बोध्यः / इणजा. दिभ्य इति // वाच्य इति शेषः / स्त्रियामित्येव / आजिरित्यत्र अजे-भावमाशय आह / बहुलमिति // इञ्वपादिभ्य इति // वाच्य इति शेषः / स्त्रियामित्येव / ननु इणोऽनुवृत्त्यैव सिद्धे इग्रहणमनर्थकम् इत्यत आह / स्वरे भेद इति // नित्यादिनित्यम्' इति स्वरविशेष इाञ्चधेः फलमित्यर्थः / इक्कृष्यादिभ्य इति // वाच्य इति शेषः / कृषिरिति // कित्त्वान्न लघूपधगुणः / गिरिरिति // गृधातोरिक् कित्त्वान्न गुणः / 'ऋत इद्धातोः' इति इत्त्वे रपरत्वम् / संज्ञायां // वरणेति // वरणः वृक्षविशेषः / वारणान्यहोमानीत्यादौ याज्ञिकानां प्रसिद्धः / पूरिकेति // तस्या विवरणम् / अपूपविशेष इति // “समितावेसनेजीरहिङ्गुमारीचयोजिते / घृताक्त जलसंयुक्त पीठस्योपरि वेल्लिते // घृतेन वाथ तैलेन भर्जिता पूरिका मता" इति भोजनकौतूहले तल्लक्षणात् / विभाषाख्यान // स्त्रियामित्येय / पूर्व परिप्रश्नः पश्चादुक्तकथनमाख्यानम् / अल्पाच्तरत्वादाख्यानशब्दस्य पूर्वनिपातः / तदाह / परिप्रश्न इति // वाऽसरूपविधिना सिद्धे विभाषाग्रहणं व्यर्थमित्यत आह / विभाषोक्तेरिति // स्त्रियां वाऽसरूपविधेरप्रवृत्त्या विभाषाग्रहणाभावे इञ्ण्वुलावेव स्याताम् / न तु प्रययान्तरमित्यर्थः / परिप्रश्ने उदाहरति / For Private And Personal Use Only