________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 681 3249 / हः संप्रसारणं च न्यभ्युपविषु / (3-3-72) निहवः / अभिहवः / उपहवः / विहवः / एषु' किम् / प्रह्वायः / 3250 / आङि युद्धे / (3-3-73) आहूयन्तेऽस्मिन्नित्याहवः / ‘युद्धे' किम् / आह्वायः / 3251 / निपानमाहावः / (3-3-74) आपूर्वस्य ह्वयतेः संप्रसारणमव्वृद्धिश्चोदकाधारश्चेद्वाच्यः / ‘आहावस्तु निपानं स्यादुपकूपजलाशये। 3252 / भावेऽनुपसर्गस्य / (3-3-75) अनुपसर्गस्य ह्वयते: संप्रसारणमप्च स्याद्भावे / हवः / 3253 / हनश्च वधः / (3-3-76) अनुपसर्गाद्धन्तेर्भावे अप्स्यात् / वधादेशश्चान्तोदात्तः / विधेन दस्युम्'। चाद्वञ् / घातः / 3254 / मूर्ती घनः / (3-3-77) मतिः काठिन्यं तस्मिन्नभिधेये हन्तेरप्स्यात् / घनश्चादेशः / अभ्रघनः / कथम् ‘सैन्धवघनमानय' इति / धर्मशब्देन धर्मी लक्ष्यते / प्रथमं जायते इति भावे घञ् / 'जनिवध्योश्च' इति नोपधावृद्धिरिति भावः। प्रजनार्थकात् मृधातोरप् स्यादिति फलितम् / कथमिति // उपसरणं प्रसरणमित्यर्थे प्रजनाप्रतीतेरबभावात् घनि उपधावृद्धिः स्यादित्याक्षेपः / समाधत्ते। अधिकरण इति // उपसरत्यस्मिन्निति प्रसरत्यस्मिन्निति च अधिकरणकारके कालेऽर्थे 'पुंसि संज्ञायाङ्घः प्रायेण' इति घप्रत्यय इत्यर्थः / ह्वः सम्प्रसारणश्च // नि, अभि, उप, वि, एषु चतुषूपपदेषु ह्वयतेरप् स्यात् सम्प्रसारणञ्च / घोऽपवादः / निहव इति // अप / वस्य सम्प्रसारणमुकारः पूर्वरूपं तस्य गुणावादेशौ / प्रह्वाय इति // घनि वृद्ध्यायादेशौ / आङि युद्धे // आङि उपपदे ह्वयतेरप् सम्प्रसारणञ्च युद्धे वाच्ये इत्यर्थः / निपानमाहावः // आहाव इति निपात्यते / निपानञ्चेद्वाच्यमित्यर्थः / फलितमाह / आयूर्वस्येति // हनश्च वधः॥ चकारो व्युत्क्रमः / तदाह / वधादेशश्चेति // अन्तोदात्त इति // सूत्रे वध इत्यन्तोदात्तस्योच्चारणादिति भावः / यद्यपि स्वतन्त्रवधेरेव 'घर्थे कविधानम्' इत्येव सिद्ध्यति / तथाप्यनुपसर्गादिति विशेषं वक्तुमिदम् / वस्तुतो वधिः स्वतन्त्रो नास्त्येवेति शब्देन्दुशेखरे / वधेन दस्युमिति // ऋग्वेदस्थोऽयं मन्त्रः स्वरप्रदर्शनाय पठितः / घात इति // 'हनस्तोऽचिण्णलोः' इति तत्वम् / 'चजोः' इति कुत्वम् / मूर्ती घनः // अभ्रघन इति // अभ्रस्य काठिन्यमित्यर्थः, भाव इत्यनुवृत्तेः / 86 For Private And Personal Use Only