________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 680 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3246 / समुदोरजः पशुषु / (3-3-69) / संपूर्वोऽजि: समुदाये उत्पूर्वश्च प्रेरणे तस्मात्पशुविषयकादप्स्यात् / 'अघनपोः' इत्युक्तेर्वीभावो न / समजः पशूनां संघः / उदजः पशूनां प्रेरणम् / 'पशुषु' किम् / समाजो ब्राह्मणानाम् / उदाज: क्षत्रियाणाम् / 3247 / अक्षेषु ग्लहः / (3-3-70) अक्षशब्देन देवनं लक्ष्यते तत्र यत्पणरूपेण ग्राह्यं तत्र 'ग्लहः' इति निपात्यते / अक्षस्य ग्लहः / 'व्यात्युक्षीमभिसरणग्लहामदीव्यन्' / 'अक्षेषु' किम् / पादस्य ग्रहः / 3248 / प्रजने सर्तेः। (3-3-71) प्रजनं प्रथमगर्भग्रहणम् / गवामुपसरः / कथम् ‘अवसरः' 'प्रसरः' इति / अधिकरणे 'पुंसि संज्ञायाम्-' (सू 3296) इति घः / गम्ये इत्यर्थः / कन्यानां प्रमदः कोकिलानां सम्मदः इत्युदाहरणम् / प्रसमोर्मदो हर्ष इत्येव सिद्धे निपातनं रूढिपरिग्रहार्थम् / समुदोरजः // समुदोः अज इति च्छेदः / सम् , उत् , अनयोः उपपदयोरित्यर्थः / अक्षेषु ग्लहः // अक्षशब्दे उपपदे इत्यर्थे अक्षेध्विति बहुवचनानुपपत्तिरित्यत आह / अक्षशब्देनेति // लक्ष्यते इति // प्रायेण देवनस्य अक्षसाध्यत्वादिति भावः / तत्रेति // देवने इत्यर्थः / पणरूपेणेति // देवने जितवते पराजितेन देयं द्रव्यं पणं तेन रूपेण ग्राह्यं यद्व्यं तस्मिन् कर्मणि 'ग्रह उपादाने' इति धातोः 'प्रहवृदृ' इत्यपप्रत्ययान्तः कृतलत्वो ग्लहशब्दो निपात्यते इत्यर्थः / 'ग्रह ग्रहणे' इत्यत्र तु 'ग्लह च' इति पठितम् / तत्र ग्लहेरप्प्रत्ययो निपात्यते / घअपवादः / अक्षस्य ग्लह इति // अक्षक्रीडायां पणत्वेन ग्राह्यमित्यर्थः / “पणोऽक्षेषु ग्लहः" इत्यमरः / अत्र देवनत्वरूपेण देवनमक्षशब्दस्य लक्ष्यम् / न त्वक्षदेवनत्वेनेत्यभिप्रेत्योदाहरति / व्यात्युक्षीमिति // माघकाव्यस्थमिदम् / 'दिवस्तदर्थस्य' इति करणस्य कर्मत्वात् द्वितीया / अभिसरणग्लहां अभिसरणचौर्यसुरतार्थमभिगमनम् / तदेव ग्लहः पणरूपेण प्राह्यं द्रव्यं यस्याः तथाविधां व्यात्युक्षीम् / 'उक्ष सेचने' परस्परञ्जलसेचनं व्यात्युक्षी तयेत्यर्थः / 'कर्मव्यतिहारे णच स्त्रियाम्' इति णच् / व्यत्युक्षशब्दात् ‘णचःस्त्रियामञ्' इति स्वार्थे अञ् तद्धितः। आदिवृद्धिः। 'टिड्ढ' इति डीप् / क्रीडायाजितवते पुंसे अभिसरणमेव पणत्वेन समयबन्धं कृत्वा प्रवृत्तेन परस्परजलसेचनेन अक्रीडनिति यावत् / अत्र जलक्रीडायामभिसरणात्मकपणस्य अक्षसाधनकत्वाभावेऽपि ग्लहेरप् भवत्येव / सूत्रे अक्षशब्देन देवनसामान्यस्य विवक्षितत्वात् / अक्षक्रीडाया एव विवक्षितत्वे त्विह ग्लहे. रप् न स्यादिति भावः / अक्षेषु किमिति // देवने किमित्यर्थः / पादस्य ग्रह इति // वन्दनाद्यमिति भावः / अत्र ग्रहधातोः 'ग्रहवृह' इत्यप् / न तु लत्वम् / ग्लहेस्तु घमि पादस्य ग्लाह इत्येव / प्रजने सर्तेः॥ प्रजनं प्रथमगर्भग्रहणमिति // प्रशब्द आद्यर्थकः / For Private And Personal Use Only