________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 669 अवोदः अवक्लेदनम् / एध इन्धनम् / ओद्म उन्दनम् / श्रन्थेनेलोपो वृद्धथभावश्च / प्रश्रथः / हिमश्रथः / 3190 / परिमाणाख्यायां सर्वेभ्यः / (3-3-20) घञ् / अजपोर्बाधनार्थमिदम् / एकस्तण्डुलनिचायः / तण्डुलानां निचायः राशिः परिच्छिद्यते। द्वौ शूर्पनिष्पावौ / शूर्पण निष्पावौ / द्वौ कारौ / अत्र विक्षिप्यमाणो धान्यादिः परिच्छिद्यते / 'दारजारौ कर्तरि णिलुक्च' (वा 2182) / दारयन्तीति दारा: / जरयतीति जारः उपपतिः / आद्गुणः / लघूपधगुणस्तु न भवति / 'न धातुलोपे' इति निषेधात् / एध इति // 'जि इन्धी दीप्तौ' इत्यस्मात् धञि नलोषः / 'न धातुलोप' इति निषेधं बाधित्वा गुणश्च निपात्यते / ओद्म इति // उन्देरोणादिके मन्प्रत्यये नलोपो गुणश्च निपात्यते / श्रन्थेरिति // प्रपूर्वस्य हिमपूर्वस्य च घनीति शेषः। परिमाणाख्यायां // घनिति // शेषपूरणम् / सर्वेभ्य धातुभ्य अकर्तरि कारके वाच्ये घञ् स्यात् प्रत्ययार्थस्य परिच्छेदे गम्ये इत्यर्थः / ननु ‘अकर्तरि कारके' इत्येव सिद्धे किमर्थमिदमित्यत आह / अजपोरिति // ‘एरच्' 'ऋदोरप्' इति वक्ष्यमाणयोधिनार्थमित्यर्थः। ‘अकर्तरि च' इति घञ् तु ताभ्यां विशेषविहिताभ्यां बाध्यत, सरूपत्वेन वाऽसरूपविधेरप्रवृत्तेरिति भावः। एकस्तण्डुलनिचाय इति // निष्कृष्य चीयते सङ्घीक्रियते इति निचायः। कर्मकारके वाच्ये 'एरच्' इत्यस्यापवादो घञ्। तण्डुलनिचायशब्दे विग्रहं दर्शयति। तण्डुलानामिति // निचायशब्दस्य विवरणम् / राशिरिति // परिच्छिद्यते इति // तण्डुलावयवकसङ्घातात्मकः राशिरकत्वेन परिच्छिद्यते इत्यर्थः / द्वौ शूर्पनिष्पावाविति // निष्पूयते तुषापनयनेन शोध्यते इति निष्पावः तण्डुलादिराशिः / कर्मणि घञ् अबपवादः / शूर्पण निष्पावः शूर्पनिष्पावः / ‘कर्तृकरणे कृता बहुलम्' इति समासः / द्वित्वन्तु शूर्पद्वारा निष्पावेऽन्वेति / अतश्शूर्पद्वित्वमार्थिकम् / न तु शाब्दमित्येकवचनं निर्बाधम् / तदाह / शूर्पणेत्यादि // द्वौ काराविति // कीर्यते विक्षिप्यते इति कारः। धान्यादिराशिः कर्मणि घञ् अबपवादः / तदाह / अत्र विक्षिप्यमाण इति // न च धातोरित्यधिकारादेव धातु. मात्रात्सिद्धे सर्वग्रहणं व्यर्थमिति शङ्कयम् / प्रकृत्याश्रय एवापवादो बाध्यते / नत्वर्थाश्रय इत्येतदर्थत्वात् / तनेह न / एका तिलोच्छ्रितिः / उच्छ्रीयते ऊर्वीक्रियते इत्युच्छ्रितिः / ऊर्ध्वं कृतो राशिः कर्मणि स्त्रियां क्तिन् / स च अर्थाश्रयत्वात् प्रकृत्याश्रयत्वाभावात् नानेन घना बाध्यते / किन्तु एरच 'ऋदोरप्' इति प्रकृत्याश्रयावेव अजपौ बाध्येते इति भाष्ये स्पष्टम् / दारजाराविति // वार्तिकम् / 'दृ विदारणे', 'ज़ वयोहानौ' आभ्यां ण्यन्ताभ्याङ्कर्तरि घञ् / णिलोपं बाधित्वा णिलुक् चेत्यर्थः / दारयन्ति चित्तं विद्रावयन्तीति दाराः भार्या / “दाराः पुंसि च भूम्न्येव" इत्यमरः / घत्रि णिलुक् / ण्याश्रयवृद्धौ निवृत्तायां घआश्रया वृद्धिः / तदाह / दारयन्तीति दारा इति // जरयति नाशयति कुलमिति जारः जुधातोर्ण्यन्तात् घञ् णिलुक् / णिलोपे सति तु तस्य परनिमित्तकत्वेन 'अचः परस्मिन्' इति स्थानिवत्त्वात् घनाश्रया वृद्धिः न स्यात् / न च णिनिमित्तैव For Private And Personal Use Only