________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त ___ 3180 / भाववचनाश्च / (3-3-11) भाव इत्यधिकृत्य वक्ष्यमाणा घनादयः क्रियार्थायां क्रियायां भविष्यति स्युः / यागाय याति / 'तुमर्थात् ' (सू 582) इति चतुर्थी / 3181 / अण्कर्मणि च / (3-3-12) कर्मण्युपपदे क्रियार्थायां क्रियायां चाण्स्यात् / ण्वुलोऽपवादः / काण्डलावो व्रजति / परत्वादयं कादीन्बाधते / कम्बलदायो व्रजति / इत्यर्थः / भाववचनाश्च // क्रियार्थायां क्रियायामिति भविष्यतीति चानुवर्तते / भावे चेत्येव सिद्धे वचनग्रहणस्य प्रयोजनमाह / भाव इत्यधिकृत्येति // भावे इत्यधिकृत्य घनादयो विधास्यन्ते ये सामान्यतः ते क्रियार्थायां क्रियायां उपपदे भविष्यति काले विशेष. विहितेनापि तुमुना समुच्चिता भवन्तीत्यर्थः / न च वाऽसरूपविधिना सिद्धमेतदिति शङ्कयम् / 'क्तल्युट तुमुन् खलर्थेषु वाऽसरूपविधिर्नास्ति' इत्युक्तेरिति भावः / ननु यागाय यातीत्यत्र यागस्य सम्प्रदानत्वाभावात् कथं चतुर्थी / नापि तादर्थ्यचतुर्थी तादर्थ्यस्य प्रत्ययेनैव लाभादित्यत आह / तुमर्थादिति // अण् कर्मणि च // चकारेण क्रियार्थायां कियायामिति समुच्चीयते / तदाह / क्रियार्थायां क्रियायाञ्चेति // तथा च क्रियार्थायां क्रियायां कर्मणि चेत्युपपदद्वये सत्येवास्य प्रवृत्तिः नान्यतरस्मिन्निति भाष्ये स्पष्टम् / कर्थकोऽयमण् / कर्तरि कृदित्यधिकारात् / अत्र ‘ण्वुलतृचौ' इति बाधित्वा 'कर्मण्यण्' इति सामान्यविधिना अण् प्राप्तः तन्तावत्क्रियार्थायां क्रियायामुपपदे विशेषविहितस्तुमुन्ण्वुलाविति ण्वुल् बाधितुमुद्युङ्क्ते, पुनर्बुल्विधिसामर्थेन वाऽसरूपविधेरत्राप्रवृत्तेरुक्कत्वात् / तमिमं ण्वुलम्बाधितुमयमण्विधिः / तदाह / ण्वुलोऽपवाद इति // 'तुमुन्ण्वुलौ' इति विहितस्य ण्वुलोऽपवाद इत्यर्थः / एवञ्च ण्वुला बाधितस्य 'कर्मण्यण्' इत्यस्य अयमण्विधिः प्रतिप्रसवार्थ इति स्थितम् / ननु वुला बाधितस्याणः प्रतिप्रसवेऽपि 'आतोऽनुपसर्गे' इति कप्रत्ययः कम्बलदायो व्रजतीत्यत्र दुर्निवारः / कप्रत्ययस्य कर्मण्यणपवादत्वात् सरूपत्वेन च वाऽसरूपविध्यप्रवृत्तेः / न चायं वैशेषिकोऽविधिः कप्रत्ययस्याप्यपवाद इति शङ्कयम् / न ह्ययमपूर्वोऽण्विधिः / किन्तु लाघवात् 'कर्मण्यम्' इत्यणेवात्र प्रतिप्रसूयते / सच 'कर्मण्यण्' इत्यण् सामान्यविहितः ‘आतोऽनुपसर्गे कः' इति वैशेषिकस्य नापवादः / प्रत्युत कप्रत्यय एव तदपवादः। अतः कम्बलदायो व्रजतीत्यत्र कर्मण्यणपवादं तुमुन्ण्वुलाविति ण्वुलम्बाधित्वा कप्रत्ययः स्यादित्यत आह / परत्वादयं कादीन् बाधते इति // आदिना सामगो गुरुकुलं व्रजतीत्यादी गापोष्टगित्यादिसङ्ग्रहः / अण्कर्मणि चेति ह्यावर्तते / प्रतिप्रसवविधिरपूर्वविधिश्च / तत्र प्रतिप्रसवविधिना ण्वुला अणो बाधनिवृत्तिः / अपूर्वविधिविहितस्य त्वणः तृतीयपादीयस्य द्वितीयपादस्थकप्रत्ययापेक्षया परत्वात् कादिप्रत्यया अणा अनेन बाध्यन्ते इत्यर्थः। एतच्च भाष्ये स्पष्टम् / इत ऊर्ध्वम् 'लट् शेषे च' इत्यादिसूत्रेषु क्रियार्थायां क्रियायामिति निवृत्तम् / भविष्यतीत्येवानुवर्तते इति For Private And Personal Use Only