________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 665 3177 / शकधृषज्ञाग्लाघटरभलभक्रमसहास्त्यिर्थेषु तुमुन् / (3-4-65) एषूपपदेषु धातोस्तुमुन्यात् / शक्नोति भोक्तुम् / एवं धृष्णोतीत्यादौ / अर्थग्रहणमस्तिनैव संबध्यते / अनन्तरत्वात् / अस्ति भवति विद्यते वा भोक्तुम् / 3178 / पर्याप्तिवचनेष्वलमर्थेषु / (3-4-66) / पर्याप्तिः पूर्णता / तद्वाचिषु सामर्थ्यवचनेषूपपदेषु तुमुन्यात् / पर्याप्तो भोक्तुं प्रवीणः कुशल: पटुरित्यादि / 'पर्याप्तिवचनेषु' किम् / अलं भुक्त्वा / 'अलमर्थेषु' किम् / पर्याप्तं भुङ्क्ते / प्रभूततेह गम्यते न तु भोक्तुः सामर्थ्यम् / 3179 / कालसमयवेलासु तुमुन् / (3-3-167) पर्यायोपादानमर्थोपलक्षणार्थम् / कालार्थेषूपपदेषु तुमुन्स्यात् / काल: समयो वेला अनेहा वा भोक्तुम् / प्रैषादिग्रहणमिहानुवर्तते तेनेह न / 'भूतानि काल: पचतीति वार्ता'। इच्छार्थेष्विति // 'इच्छार्थेषु लिङ्लोटौ' इत्यतस्तदनुवृत्तेरिति भावः। इच्छति भोक्तुमिति // अत्र इच्छत्युपपदार्थस्य इच्छाया भोजनोद्देश्यत्वाभावेऽपि तुमुन् / इच्छार्थेष्वित्यर्थ. ग्रहणस्य प्रयोजनमाह / वष्टि वाञ्छति वेति // यद्यपि वशेः छान्दसेषु परिगणनं धातुपाठे / तथापि ‘वष्टि भागुरिः' इति वार्तिकप्रयोगात् लोकेऽपि प्रयोग इति भावः / शकधृष // 'शकभूषज्ञा' इति सूत्रमप्यक्रियोपपदार्थम् / शक्नोति भोक्तुमिति // अत्र शक्त जनोद्देश्यत्वाभावेऽपि तुमुन् / एवमिति // धृष्णोति जानाति ग्लायति पटने आरभते लभते क्रमते उत्सहते अर्हति वा भोक्तुमित्युदाहार्यम् / अस्तिनैवेति // न तु शकादिनेत्यर्थः / कुत इत्यत आह / अनन्तरत्वादिति // सन्निहितत्वादित्यर्थः / पर्याप्तिवचने // पर्याप्ति इत्यस्य विवरणम् / पूर्णतेति // अलमध्वित्यस्य विवरणम् / सामर्थ्यवचनेष्विति // पर्याप्तो भोक्तुमिति // अन्यूनसामर्थ्यवानित्यर्थः / वचनग्रहणस्य फलमाह / प्रवीण इत्यादि // अलं भुक्त्वेति // अत्र अलमिति प्रतिषेधार्थकम् / नतु पर्याप्त्यर्थकमिति भावः / पर्याप्तं भुङ्क्ते इति // बहुलमन्नं भुङ्क्ते इत्यर्थः / प्रभूततेति // अन्नस्येति शेषः / कालसमयवेलासु // अक्रियोपपदेऽपि प्रवृत्त्यर्थमिदम् / ननु कालपर्यायाणां कतिपयानां ग्रहणात्तदितरस्मिन् अनेह आदिशब्दे उपपदे न स्यादित्यत आह / पर्यायोपादानमर्थोपलक्षणार्थमिति // अनुवर्तते इति // प्रैषातिसर्गसूत्रादिति भावः / भूतानीति // पृथिव्यादिपञ्चभूतानि कालः पचति उपचयापचयादिविकारं प्रापयति इति वार्ता लोकवृत्तान्त 84 For Private And Personal Use Only