________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 664 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त एतौ संप्रदाने कारके निपात्येते / दाशन्ति तस्मै दाशः / गां हन्ति तस्मै गोनोऽतिथिः / 3173 / भीमादयोऽपादाने / (3-4-74) भीमः / भीष्मः / प्रस्कन्दनः / प्ररक्षः / मूर्खः / खलतिः / 3174 / ताभ्यामन्यत्रोणादयः / (3-4-75) संप्रदानापादानपरामर्शार्थ ताभ्यामिति / ततोऽसौ भवति तन्तुः / वृत्तं तदिति वर्त्म / चरितं तदिति चर्म / 3175 / तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् / (3-3-10) क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्त: / मान्तत्वादव्ययत्वम् / कृष्णं द्रष्टुं याति / कृष्णं दर्शको याति / अत्र वाऽसरूपेण तृजादयो न / पुनण्वुलुक्तेः। 3176 / समानकर्तृकेषु तुमुन् / (3-3-158) अक्रियार्थोपपदार्थमेतत् / इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन्यात् / इच्छति भोक्तुम् / वष्टि वाञ्छति वा / तुमुन्ण्वुलौ // क्रियार्थायामिति // क्रियोद्देश्यभूतक्रियावृत्तिधातौ उपपदे इत्यर्थः / भविष्यतीत्यनुवर्तते / तुमुनि नकार इत् मकारादुकार उच्चारणार्थः / ण्वुलि णलावितो, वोरकादेशः / मान्तत्वादिति // तुमुनो मान्तकृत्त्वात् 'कृन्मेजन्तः' इत्यव्ययत्वमित्यर्थः / ततश्च 'अव्ययकृतो भावे' इति वचनाद्भावे तुमुन् / ण्वुल् तु कर्तर्येव / कृष्णं द्रष्टुमिति // 'न लोकाव्यय' इति न षष्ठी। कृष्णकर्मकं भविष्यद्दर्शनार्थ यानमित्यर्थः / अत्र यातीत्युपपदम् / अत्र तुमुन्प्रत्ययप्रकृत्यर्थस्य दर्शनस्य यानार्थत्वं तुमुना द्योत्यं वाच्यं वा / कृष्णं दर्शको यातीति // कृष्णं द्रक्ष्यन् तदर्थ यातीत्यर्थः / ‘अकेनोर्भविष्यदाधमर्ण्ययोः' इति न षष्ठी / ननु तुमुनो भावार्थकत्वे तद्विषये कर्तरि विहितानां तृजादीनामप्रवृत्तावपि प्रबुल्विषये कर्तरि तृजादयः कुतो न स्युः / न च विशेषविहितेनानेन ण्वुला तृजादयो बाध्यन्ते इति वाच्यम् / वासरूपविधिना तद्बाधस्य पाक्षिकत्वादित्यत आह / अत्रेति // क्रियार्थक्रियोपपदे विषये वासरूपविधिना पक्षे प्राप्ताः ये तृजादयस्ते न भवन्तीत्यर्थः / आदिना 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' इत्यादिसङ्ग्रहः / कुतोऽत्र तृजादयो नेत्यत आह / पुनण्वुलुक्तेरिति // 'वुल् तृचौ' इति कालसामान्ये कर्तरि विहितो ण्वुल् क्रियार्थक्रियोपपदे विषये भवतीति पुनरिह ण्वुल्विधानात् तदितरतृजादयो न भवन्तीति विज्ञायते इति भावः / समानकर्तृकेषु // 'तुमुन्ण्वुलौ क्रियायाम्' इत्येव सिद्धे किमर्थमिदमित्यत आह / अक्रियार्थेति // For Private And Personal Use Only